________________
पद्मपुराणम् ।
१०
सप्तषष्टितमं पर्व ।
।
१३ ॥
पूजां च सर्वचैत्येषु सर्वसंस्कारयोगिषु । सर्वश्चायं भरो न्यस्तो मंदोदय स्वचेतसि ॥ ८ ॥ विंशस्य देवदेवस्य वंदितस्य सुरासुरैः । मुनिसुव्रतनाथस्य तस्मिन् काले महोदये || ९ | सर्वत्र भरतक्षेत्रे सुविस्तीर्णे महायते । अर्हचैत्यैरियं पुण्यैर्वसुधाऽऽसीदलंकृता ॥ १० ॥ राष्ट्राधिपतिभिर्भूपैः श्रेष्ठिभिग्रमभोगिभिः । उत्थापितास्तदा जैनाः प्रासादाः पृथुतेजसः ॥ ११॥ अधिष्ठिता भृशं भक्तियुक्तैः शासनदैवतैः । सद्धर्मपक्षसंरक्षाप्रवणैः शुभकारिभिः ।। १२ ।। सदा जनपदैः स्फीतैः कृताभिषवपूजनाः । रेजुः स्वर्जविमानाभा भव्यलोकनिषेविताः ॥ पर्वते पर्वते चारौ ग्रामे ग्रामे वने वने । पत्तने पत्तने राजन् हर्म्ये हर्म्ये पुरे पुरे ॥ १४ ॥ संगमे संगमे रम्ये चच्चरे चत्वरे पृथौ । बभूवुश्चैत्यसंघाता महाशोभासमन्विताः ॥ १५ ॥ शरच्चंद्रसितच्छायाः संगीतध्वनिहारिणः । नानातूयस्वनोभूतक्षुब्धसिंधु समस्वनाः ॥ १६ ॥ त्रिसंध्यं वंदनोद्युक्तैः साधुसंघैः समाकुलः । गंभीरा विविधाश्चर्याश्चित्र पुष्पोपशोभिताः ॥ १७ ॥ विभूत्या परया युक्ता नानावर्णमणित्विषः । सुविस्तीर्णाः समुत्तुंगा महाध्वजविराजिताः ॥ १८ ॥ जिनेन्द्रप्रतिमास्तेषु हेमरूप्यादिमूर्तयः । पंचवर्णा भृशं रेजुः परिवारसमन्विताः ।। १९ । पुरे च खेचराणां च स्थाने स्थानेऽतिचारुभिः । जिनप्रासादसत्कुटैर्विजयार्द्धगिरिवरः ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org