SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । सातषष्टितम पर्व। बहु विदितमलं सुशास्त्रजालं नयविषयेषु सुमंत्रिणोऽभियुक्ताः । ____ अखिलमिदमुपैति मोहभावं पुरुषरवौ धनमोहमेघरुद्धे ॥ ९५ ॥ इत्यार्ष रविषेणाचार्यप्रोक्ते पद्मपुराणे रावणदूतागमागमाभिधानं नाम षट्षष्टितम पर्व । अथ सप्तषष्टितमं पर्व। स्वदूतवचनं श्रुत्वा राक्षसानामधीश्वरः । क्षणं संन्मंत्रणं कृत्वा मंत्रज्ञैः सह मंत्रिभिः ॥१॥ कृत्वा पाणितले गंडं कुंडलालोकभासुरम् । अधोमुखः स्थितः किंचिदिति चिन्तामुपागतः ॥२॥ नागेन्द्रवृद्धसंघट्टे युद्धे शत्रु जयामि चेत् । तथा सति कुमाराणां प्रमादः परिदृश्यते ॥३॥ सुप्ते शत्रुबले दत्त्वा समास्कंदमवेदितः । आनयामि कुमारान्कि किं करोमि कथं शिवम् ॥ ४ ॥ इति चिंतयतस्तस्य मागधेश्वर शेमुपी । इयं समुद्गता जातो यया सुखितमानसः ॥ ५ ॥ साधयामि महाविद्यां बहूरूपामिति श्रुताम् । प्रतियूहितुमुद्युक्तैरशक्यां त्रिदशैरपि ॥ ६॥ इति ध्यात्वा समाहूय किंकरानशिषद्रुतम् । कुरुध्वं शांतिगेहस्य शोभां सत्तोरणादिभिः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy