________________
पद्मपुराणम् ।
षट्षष्टितम पर्व । यावत्समाकर्षदसिं प्रदीप्तं । तावत्सुमित्रातनयेन रुद्धः ॥ ८८ ॥ प्रसीद वैदेह ! विमुंच कोपं । न जंबुके कोपमुपैति सिंहः ॥
गजेंद्रकुंभस्थलदारणेन । क्रीडांस मुक्त्वा निकरैः करोति ॥ ८९ ।। नरेश्वरा ऊर्जितशौर्यचेष्टा । न भीतिभाजां प्रहरंति जातु ॥
न ब्राह्मणं न श्रमणं न शून्यं । स्त्रियं न बालं न पशुं न दूतम् ॥ ९ ॥ इत्यादिभिर्वाङिनवहैः सुयुक्तैर्यदा स लक्ष्मीधरपंडितेन ।।
नीतः प्रबोधं शनकैरमुंचत् । क्रोधं तथा दुःसहदीप्तिचक्रः ॥९१ ॥ निर्भत्सितः क्रूरकुमारचक्रः वाक्यैरलं वजनिघाततुल्यैः ।
अपूर्वहेतुप्रलघूकृतात्मा स्वमन्यमानः शृणुतोऽप्यसारम् ॥ ९२ ॥ नभः समुत्पत्य भयार्दितोऽहं त्वत्पादमूलं पुनरागतोऽयम् ।
लक्ष्मीधरोऽसौ यदि नाऽभविष्य-द्वैदेहतो देव ! ततोऽमरिष्यम् ॥ ९३ ॥ इति गदितमिदं यथाऽनूभूतं रिपुचरितं तव देव ! निर्विशंकम् ।
कुरु यदुचितमत्र सांप्रतं वचनकरा हि भवंति मद्विधास्तु ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org