________________
पद्मपुराणम् ।
षष्टितमं पर्व ।
नूनं न संति लंकायां कुशला मंत्रिवादिनः । पकतैलादिना येन क्रियते तच्चिकित्सितम् ॥७७॥ आवेशं सायकैः कृत्वा क्षिप्रं संग्राममंडले । लक्ष्मीधरनरेंद्रोऽस्य रुजः सर्वा हरिष्यति ॥ ७८ ॥ ततो मया तदाक्रोशवहिज्वलितचेतसा । शुना द्विप इवाकुष्टो वानरध्वजचन्द्रमाः ॥ ७९ ॥ सुग्रीव ! पद्मगर्वेण नूनं त्वं मर्तुमिच्छसि । अधिक्षिपसि यत्क्षुद्र विद्याधरमहेश्वरम् ॥ ८० ॥ ऊचे विराधितश्च त्वां यथा ते शक्तिरस्ति चेत् । आगच्छतु ममैकस्य युद्धं यच्छ किमास्यते ८१ उक्तो दाशरथिर्भूयो मया रामरणाजिरे । रावणस्य न किं दृष्टस्त्वया परमविक्रमः ॥ ८२ ॥ यतः क्षमान्वितं वीरं राजखद्योतभास्करम् । सामप्रयोगमिच्छन्तं भवत्पुण्यानुभावतः ॥ ८३ ॥ वदान्यं त्रिजगत्ख्यातप्रतापं प्रणतप्रियम् । नेतुमिच्छसि संक्षोभं कैलासक्षोभकारिणम् ॥ ८४ ॥ चंड सैन्योर्मिमालाढ्यं शस्त्रयादोगणाकुलम् । तर्तुमिच्छसि किं दोर्भ्यां दशग्रीव महार्णवम् ||८५ || ययुद्विपमहान्यालां पदातिद्रुमसंकटाम् । विवक्षसिं कथं दुर्गा दशग्रीवमहावीम् ॥ ८६ ॥ न पद्मवातेन सुमेरुरुह्यते । न सागरः शुष्यति सूर्यरश्मिभिः ॥
गवेन्द्रशृंगैर्धरणी न कंपते । न साध्यते त्वत्सदृशैर्दशाननः ॥ ८७ ॥ इति प्रचंड मयि भाषमाणे । भामडलं: क्रोधकषायनेत्रः ॥
Jain Education International
७
For Private & Personal Use Only
www.jainelibrary.org