________________
पद्मपुराणम् ।
पद्रषष्टितमं पर्व। ददामि ते महानागांस्तुरगांश्च रथांस्तथा । कामगं पुष्पकं यानमप्रधृष्यं सुरैरपि ॥ ६४ ॥ सहस्रत्रितयं चारुकन्यानां परिवर्गवत् । सिंहासनं रविच्छायं छत्रं च शशिसंनिभम् ॥६५॥ भज निष्कंटकं राज्यं सीता यदि तवाऽऽज्ञया । मां वृणोति किमन्येन भाषितेनेह भूरिणा ॥६६॥ वयं वेत्रासनेनैव संतुष्टाः स्वल्पवृत्तयः । भविष्यामो मदुक्तं चेत्करोषि सुविचक्षण ॥ ६७॥ एवमादीनि वाक्यानि प्रोक्तोऽपि स मया मुहुः । सीताग्राहं न तन्निष्ठो मुंचते रघुनंदनः ॥६८॥ साधोरिवातिशांतस्य चर्या सा तस्य भाषिता । अशक्यमोचना दानात् त्रैलोक्यस्यापि सुन्दरी ।। ब्रवीत्येवं च रामस्त्वां यथा तव दशानन । न युक्तमीदृशं वक्तुं सर्वलोकविगर्हितम् ॥ ७० ॥ नवैवं भाषमाणस्य नृणामधमजन्मनः । रसनं न कथं यातं शतधा पापचेतसः ॥ ७१ ॥ अपि देवेंद्रभोगै न कृत्यं सीतया बिना । मुंश्व त्वं पृथिवीं सर्वामाश्रयिस्याम्यहं वनम् ॥७२॥ परांगनां समुद्दिश्य यदि त्वं मर्तुमुद्यतः । अहं पुनः कथं स्वस्याःप्रियाया न कृते तथा ॥७३॥ सर्वलोकगताः कन्यास्त्वमेव भज सुन्दर । फलपर्णादिभोजी तु सीतयाऽमा भ्रमाम्यहम् ॥७४॥ शाखामृगध्वजाधीशस्त्वां प्रहस्यामणीदिदम् । यथा किल ग्रहेणाऽसौ भवत्स्वामी वशीकृतः ७५ वायुना वातिचंडेन विप्रलापादिहेतुना । येनेदं विपरीतत्वं वराकः समुपागतः ॥७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org