________________
पद्मपुराणम् ।
२४५
अथ शतं पर्व |
एवं तावदिदं जातमिदमन्यन्नरेश्वर । शृणु वक्ष्यामि तं वृत्तं लवणांकुशगोचरम् ॥ १ ॥ अथ सर्वप्रजा पुण्यैगृहीताया इवामलैः । अधत पांडुतामंगयष्टिर्जन कजन्मनः ॥ २ ॥ श्यामतासमवष्टब्धचारुचूचुकचूलिकैः । पयोधरघटौ पुत्रपानार्थमिव मुद्रितौ ॥ ३ ॥ स्तन्यार्थमानने न्यस्ता दुग्धसिंधुरिवायता । सुस्निग्धधवला दृष्टिर्माधुर्यमदधात्परम् ॥ ४ ॥ सर्वमंगल संघातैर्गात्रयष्टिरधिष्ठिता । अमंदायतकल्याणा गौरवोद्भवनादिव ॥ ५ ॥ मंद मंदं प्रयच्छंत्याः क्रमं निर्मलकुट्टिमे । प्रतिबिंबांबुजेन क्ष्मा पूर्व सेवामिवाकरोत् ॥ ६ ॥ सूतिकालकृता कांक्षा कपोलप्रतिबिंबिता । समलक्ष्यत लक्ष्मीर्वा शय्यापाश्रयपुत्रिका ॥ ७ ॥ रात्रौ सोधोपयाताया व्यंशुके स्तनमंडले । श्वेतच्छत्रमिवाधारि संक्रांतं शशिमंडलम् ॥ ८ ॥ वासवेश्मनि सुप्ताया अपि प्रचलबाहुकाः । चित्रचामरधारिण्यश्चामराणि व्यधूनयन् ॥ ९ ॥ स्वप्ने पयोजिनी पुत्रपुटं वारिभिरादरात् । अभिषेको महानागैरकारि परिमंडितैः ॥ १० ॥ असकृज्जयनिःस्वानं व्रजंत्याः प्रतिबुद्धताम् । सच्चंद्रशालिका शालभंजिका अपि चक्रिरे ॥ ११ ॥
Jain Education International
शतं पर्व ।
For Private & Personal Use Only
www.jainelibrary.org