________________
पद्मपुराणम् ।
૨૪૩
नवनवतितमं पर्व ।
सीताशब्दमयस्तस्य समालापः सदाऽभवत् । सर्व ददर्श वैदेहीं तद्गुणाकृष्टमानसः ॥ १०९ ॥ क्षितिरेणुपरीतांगां गिरिगहरवर्त्तिनीम् । अपश्यज्जानकीं स्वप्ने नेत्रांबुकृतदुर्दिनाम् ॥ ११० ॥ मनसा च सशल्येन गाढशोको विबुद्धवान् । अचिंतयत्ससूत्कारो वाष्पाच्छादितलोचनः १११ कष्टं लोकांतरस्थाऽपि सीता सुंदरचेष्टिता । न विमुंचति मां साध्वी सानुबंधा हितोद्यता ११२ स्वैरं स्वैरं ततः सीताशोके विरलतामिते । परिशिष्टवरस्त्रीभिः पद्मो धृतिमुपागमत् ॥ ११३ ॥ तौ शीरचक्रदिव्यास्त्रौ परमन्यायसंगतौ । प्रीत्याऽनंतरया युक्तौ प्रशस्तगुणसागरौ ॥ ११४ ॥ पालयंतौ महीं सम्यङ्क्षिनगापतिमेखलाम् । सौधर्मैशान देवेंद्राविव रेजतुरुत्कटम् ॥ ११५ ॥ atar कोशलायां सुरलोकसमान मानवायां राजन् । परमान प्राप्तौ भोगान् सुप्रभौ पुरुषोत्तमौ यथा पुरुषेद्रौ ॥ ११६ ॥ सुकृतसुकर्मोदयतः सकलजनानंददानकोविदचरितौ ।
सुखसागरे निमग्नौ रविभावज्ञातकालमवतस्थाते ।। ११७ ॥ श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे रामशोकाभिधानं नाम नवनवतितमं पर्व ॥ ९९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org