________________
पद्मपुराणम् ।
२४३
नवनवतितमं पर्व।
वेणुवीणामृदंगादिनिःस्वानपरिवर्जिता । नगरी देव संजाता करुणाकंदपूरिता ॥ ९६ ॥ रथ्यासूद्यानदेशेषु कांतारेषु सरित्सु च । त्रिकचत्वरभागेषु भवनेष्वापणेषु च ॥ ९७ ॥ संतताभिपतन्तीभिरश्रुधाराभिरुद्गतः । पंकः समस्तलोकस्य घनकालभवोपमः ॥ ९८ ।। वाष्पगद्गदया वाचा कृच्छ्रेण समृदाहरन् । गुणप्रसूनवर्षेण परोक्षामपि जानकीम् ॥ ९९।। पूजयत्यखिलो लोकस्तदेकगतमानसः । सा हि सर्वसतीमूर्ध्नि पदं चक्रे गुणोज्ज्वला ॥ १० ॥ समुत्कंठा पराधीनः स्वयं देव्याऽनुपालितैः । छेकैरपि परं दीनं रुदितं धूतविग्रहैः ॥ १०१॥ तदेवं गुणसंबंधं समस्तजनचेतसः । कृते कस्य न जानक्या वतेते शुगनुत्तरा ॥ १०२ ॥ किन्तु कोविद नोपायः पश्चात्तापो मनीषिते । इति संचिंत्य धीरत्वमवलंवितुमर्हसि ॥ १०३॥ इति लक्ष्मणवाक्येन पद्मनाभः प्रसादितः । शोकं किंचित्परित्यज्य कर्त्तव्ये निदधे मनः १०४ प्रेतकर्मणि जानक्याः सादरं जनमादिशत् । दाग भद्रकलशं चैव समाह्वाय जगाविति ॥१०५॥ समादिष्टोऽसि वैदेह्या पूर्व भद्र यथाविधम् । तेनैव विधिना दानं तामुद्दिश्य प्रदीयताम्॥१०६॥ यथाऽऽज्ञापयसीत्युक्त्वा कोषाध्यक्षः सुमानसाः । अर्थिनामीप्सितं द्रव्यं नवमासानशिश्रणत् ॥ सहस्रैरष्टभिः स्त्रीणां सेव्यमानोऽपि संततम् । वैदेहीं मनसा रामो निमेषमपि नात्यजत् ॥१०८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org