________________
पद्मपुराणम् ।
२४२
नवनवतितमं पर्व |
स्थिते निर्वचने तस्मिन् ध्यात्वा सीतां सुदुःखिताम् । पुनर्मूर्च्छां गतो रामःकृच्छ्रात्संज्ञां च लंभितः ।। लक्ष्मणोऽत्रांतरे प्राप्तो जगादान्तः शुचं स्पृशन् । आकुलोऽसि किमित्येव देव धैर्यं समाश्रय ॥ ८४॥ | फलं पूर्वार्जितस्येदं कर्मणः समुपागतम् । सकलस्यापि लोकस्य राजपुत्र्या न केवलम् ।। ८५ ।। प्राप्तव्यं येन यलोके दुःखं कल्याणमेव वा । स तं स्वयमवाप्नोति कुतश्रिद्वापदेशतः ॥ ८६ ॥ आकाशमपि नीतः सन् वनं वा श्वापदाकुलम् । मूर्धानं वा महीघ्रस्य पुण्येन स्वेन रक्ष्यते ॥८७॥ देव सीतापरित्यागश्रवणाद्भरतावनौ । अकरोदास्पदं दुःखं प्राकृतीयमनःस्वपि ॥ ८८ ॥ प्रजानां दुःखतप्तानां विलीनानां समंततः । अश्रुधारापदेशेन हृदयं न्यगलन्निव ।। ८९ ॥ परिदेवनमेवं च चक्रेत्यन्तसमाकुलः । हिमाहतप्रभांभोजखंडसम्मितवक्त्रकः ।। ९० ।। हा दुष्टजनवाक्य मिप्रदीपितशरीरिके । गुणशस्यसमुद्भूतिभूमिभूतसुभावने ॥ ९१ ॥ राजपुत्रिक याताऽसि सुकुमारांघ्रिपल्लवे । शीलाद्रिधरणक्षोणि सीते सौम्ये मनस्विनि ॥ ९२ ॥ ख़लवाक्यतुषारेण मातः पश्य समंततः । गुणराट् विसिनी दग्धा राजहंसनिषेविता ॥ ९३ ॥ सुभद्रासदृशी भद्रा सर्वाचारविचक्षणा । सुखासिकेच लोकस्य मूर्त्ता क्वासि वरे गता ॥ ९४ ॥ भास्करेण बिना का द्यौः का निशा शशिना विना । स्त्रीरत्नेन विना तेन साकेता वाऽपि की शी९५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org