________________
पद्मपुराणम् ।
૨૪o
नवनवतितमं पर्व ।
पूर्वादपि प्रिये दुःखादिदं दुःखमनुत्तमम् । प्राप्तासि साध्वि कांतारे दारुणेन मयोज्झिता ॥७०॥ रात्रौ तमसि निर्भेद्ये सुप्ता खिन्नशरीरिका । वनरेणुपरीतांगा किमाक्रान्ताऽसि हस्तिना ॥ ७१ ॥ गृधर्क्ष मल्ल गोमायुशशोलूकसमाकुले । निर्मार्गे परमारण्ये भियसे दुःखिता कथम् ॥ ७२ ॥ दंष्ट्राकरालवक्त्रेण धूतांगेन महाक्षुधा । किं व्याघ्रेणोपनीताऽसि प्रियेऽवस्थाम शब्दिताम् ॥ ७३ ॥ किं वा विलोलजिह्वेन विलसत्केसरालिना । सिंहेनास्यथ वा सवशाली किं योषितीदृशः ॥ ७४ ॥ ज्वालाकलापिनोत्तुंगपादपाभावकारिणा । दावेन किन्नु नीताऽसि देव्यवस्थामशोभनाम् ॥ ७५ ॥ अथवा ज्योतिरीशस्य करैरत्यन्तदुःसहैः । जंतुधर्मं किमाप्ताऽसि छायासर्पणविह्वला ॥ ७६ ॥ नृशंसेऽपि मयि स्वांतं कृत्वा शोभनशीलिका । विदीर्णहृदया किन्तु मर्त्यधर्मसमाश्रिता ॥ ७७ ॥ वातिरत्नजटिभ्यां मे सदृशः को नु सांप्रतम् । प्रापयिष्यति सीताया वार्तां कुशलशंसिनीम् ॥७८॥ हा प्रिये हा महाशीले हा मनस्विनि हा शुभे । क्व तिष्ठसि का याताऽसि किं करोषि न वेत्सि किम् ।। अहो कृतांतवासौ सत्यमेव त्वया प्रिया । त्यक्तातिदारुणेऽरण्ये कथमेवं करिष्यसि ॥ ८० ॥ ब्रूहि ब्रूहि न सा कांता त्यक्ता तव मयेतरम् । वक्त्रेणानेन चंद्रेण क्षरतेवामृतोत्रम् ॥ ८१ ॥ इत्युक्तोऽपत्रपाभारनतवक्त्रो गतप्रभः । प्रतिपत्तिविनिर्मुक्तः सेनानीराकुलोऽभवत् ॥ ८२ ॥
३–१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org