________________
पद्मपुराणम् ।
नवनवतितमं पर्व
अचिंतयच्च किं त्वेतत्खलवाक्यवशात्मना । मयका मूढचित्तेन कृतमत्यन्त निंदितम् ॥ ५७ ॥ तादृशी राजपुत्री क्व क्वचेदं दुःखमीदृशम् । इति संचित्य यातोऽसौ मूर्छा मुकुलितेक्षणः ॥ ५८ ॥ चिराच्च प्रतिकारेण प्राप्य संज्ञां मुदुःखितः । विप्रलापं परं चक्रे दयितागतमानसः ॥ ५९ ॥ हा त्रिवर्णसरोजाक्षि हा विशुद्धगुणेषुधे । हा वक्त्रजिततारेशे हा पद्मांतर कोमले ।। ६० ।। africe वैदेहि देहि देहि वचो द्रुतम् । जानास्येव हि मे चित्तं त्वद्यतेऽत्यन्तकातरम् ॥ ६१॥ उपमानविनिर्मुक्तशीलधारिणि हारिणि । हितप्रियसमालापे पापवर्जितमानसे ।। ६२ ।। अपराधविनिर्मुक्ता निर्घृणेन मयोज्झिता । प्रतिपन्नाऽसि कामाशां मम मानसवासिनि ।। ६३ ।। महाप्रतिभयेऽरण्ये क्रूरश्वापदसंकटे । कथं तिष्ठसि संत्यक्ता देवि भोगविवर्जिता ॥ ६४ ॥ मदासक्तचकोराक्षि लावण्यजलदीर्घिके । त्रपाविनयसंपन्ने हा देवि क्व गतासि मे ।। ६५ ।। निःश्वासाऽऽमोदजालेन बद्धान् झंकारसंगतान् । वादयंती कराजेन भ्रमरान् खेदमाप्स्यति ॥ ६६ ॥ क्व यास्यसि विचेतका यूथभ्रष्टा मृगी यथा । एकाकिनी वने भीमे चिंतितेऽपि सुदुःसहे ॥ ६७ ॥ अजगर्भमृदू कांतौ पादुकौ चारुलक्ष्मणौ । कथं तब सहिष्येते संगं कर्कशया भुवा ॥ ६८ ॥ कृत्याकृत्यविवेकेन सुदूरं मुक्तमानसैः । गृहीता किमसि म्लेच्छैः पल्लीं नीता सुभीषणाम् || ६९॥
Jain Education International
२४०
For Private & Personal Use Only
www.jainelibrary.org