________________
पद्मपुराणम् ।
२३९
नवनवतितमं पर्व ।
सम्यग्दर्शनरत्नेन यस्यात्मा कृतभूषणः । लोकद्वितयमप्यस्य कृतार्थत्वमुपाश्नुते ॥ ४४ ॥ संदिष्टमिति जानक्या स्नेहनिर्भरचित्तया । श्रुत्वा कस्य न वीरस्य जायते मतिरुत्तमा ।। ४५ ।। स्वभावाद्भीरुका भीरुर्वीक्षमाणा सुभीरुभिः । विभीषिकाभिरुग्राभिर्भीमाभिः पौस्तिनोऽप्यलम् ४६ भासुरोग्रमहाव्यालजालकालभयंकरे । सामिशुष्क सरोमज्जच्छ्रत्कुर्वन्मत्तवारणे ॥ ४७ ॥ कर्कन्धुकंटकाश्लिष्ट पुच्छांर्त्तचमरावले | अलीकसलिलश्रद्धाढी कमानाकुलैणके ॥ ४८ ॥ कपिकच्छरजःसंगनितांतचलमर्कटे । प्रलंब केसरच्छन्नवक्रविदवृक्षके ॥ ४९ ॥ तृष्णातुरवृकग्रामलसद्रसनपल्लवे । गुंजाकोशीस्फुटाच्छोटताड़नक्रुद्ध भोगिनि ॥ ५० ॥ परुषानिलसंचारक्रूरकंदश्रितांत्रिये । क्षण संभूतवातूलसमुद्धृतरजोदले ॥ ५१ ॥ महाजगरसंचारचूर्णिता नेकपादपे । उद्वृत्तमत्तनागेन्द्रध्वनिभीमा सुधारिणि ।। ५२ ॥ वराहवाहिनीखातसरःक्रोडसुकर्कशे । कंटकावटवल्मीककूट संकटभूतले ॥ ५३ ॥ शुष्कपुष्पद्रवोत्ताम्यद्धाम्यद्धर्मार्त्तगर्मुति । कुप्यासलिलनिर्मुक्त सूचीशतकरालि ॥ ५४ ॥ एवंविधे महारण्ये रहिता देव जानकी । मन्ये न क्षणमप्येकं प्राणान् धारयितुं क्षमा ॥ ५५ ॥ ततः सेनापतेर्वाक्यं श्रुत्वा रौद्रमरेरपि । विषादमगमद्रामस्तेनैव विदितात्मकम् ॥ ५६ ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org