________________
पद्मपुराणम् ।
१३८
वनवतितमं पर्व ।
निसर्गद्वेष संसक्तयुद्वयाघ्र महिषाधिके । निबद्धदुंदुभिध्वाने मरुता कोटरश्रिता ॥ ३१ ॥ कंदरोदरसंमूर्च्छासिंहनादप्रतिध्वनौ । दारुक्रकचजस्वानभीमसुतशयुस्वने || ३२ ॥ नृत्यत्तरिक्षविध्वस्तसारंगा स्रस्तपुत्रके । धातकीस्तवकाले हि शोणितार्शकिसिंहके ॥ ३३ ॥ कृतांतस्यापि भीभारसमुद्भवनपंडिते । अरण्ये देव त्वद्वाक्याद्वैदेही रहिता मया ॥ ३४ ॥ अदुर्दिनवाया दीपिताया महाशुचा । संदेशं देव सीताया निबोध कथयाम्यहम् ॥ ३५ ॥ त्वामाह मैथिली देवी यदीच्छस्यात्मने हितम् । जिनेंद्रे मा मुचो भक्ति यथा त्यक्ताऽहमीदृशी ३६ स्नेहानुरागसंसक्तो मानी यो मां विमुंचति । नूनं जिनेऽप्यसौ भक्ति परित्यजति पार्थिवः ||३७|| वाग्बली यस्य यत्किचित्परिवादं जनः खलः । अविचार्य वदत्येव तद्विचार्य मनीषिणा ॥ ३८ ॥ निर्दोषाया जनो दोषं न तथा मम भाषते । तथा सद्धर्मरत्नस्य सम्यग्बोधवहिः कृतः ॥ ३९ ॥ को दोषो यदहं त्यक्ता भीषणे विजने वने । सम्यग्दर्शनसंशुद्धिं राम न त्यक्तुमर्हसि ॥ ४० ॥ एतदेकभवे दुःखं वियुक्तस्य मया सह । सम्यग्दर्शनहानौ तु दुःखं जन्मनि जन्मनि ॥ ४१ ॥ नरस्य सुलभं लोके निधिस्त्रीवाहनादिकम् । सम्यग्दर्शनरत्नं तुं साम्राज्यादपि दुर्लभम् ॥ ४२ ॥ राज्ये विधाय पापानि पतनं नरके ध्रुवम्। उर्द्ध गमनमेकेन सम्यग्दर्शन तेजसा ।। ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org