________________
पद्मपुराणम्।
२३७
नवनवतितम पर्व । ततो विविधवादित्रनादेनाऽऽशाभिपूरिणा । शंखस्वनविमिश्रेण बंदिनिःस्वानयोगिना ॥ १८॥ विस्मयव्याप्तचित्तेन पोरेण कृतवीक्षणा । विवेश नगरं सीता लक्ष्मीरिव सुरालयम् ॥ १९ ॥ उद्यानेन परिक्षिप्तं दीर्घिकाकृतमंडनम् । मेरुकूटसमाकारं बलदेवसमच्छविम् ॥२०॥ वज्रजंघगृहान्तस्थं प्रासादमतिसुन्दरम् । पूज्यमाना नृपस्त्रीभिः प्रविष्टा जनकात्मजा ॥ २१ ॥ विभ्रता परमं तोषं बज्रजंघेन शूरिणा । भ्रात्रा भामंडलेनेव पूज्यमाना सुचेतसा ॥ २२ ॥ जय जीवाभिनंदेति बर्द्धस्वाऽऽज्ञापयेति च । ईशाने दैवते पूज्ये स्वामिनीति च शब्दिता ॥२३॥ आज्ञा प्रतीक्षता मूना संभ्रमं दधता परम् । प्रबद्धांजलिना साधं परिवर्गेण चारुणा ॥ २४ ॥ अवसत्तत्र वैदेही समुद्भूतमनीषिता । कथाभिधर्मसक्ताभिः पद्मभूमिश्च संततम् ।। २५ ।। प्राभृतं यावदायाति सामंतेम्यो महीपतेः । दत्तेन तेन चैदेही धर्मकार्यमसेवत ॥ २६ ॥ असावपि कृतांतास्यस्तप्यमानमना भृशम् । स्थूरीपृष्ठान् परिश्रान्तान् खेदवाननुपालयन् ॥२७॥ समंतान्नृपलोकेन पूर्यमाणस्त्वरावता । जगाम रामदेवस्य समीपं विनताननः ॥ २८ ॥ अब्रवीच प्रभो! सीता गर्भमात्रसहायिका । मया त्वद्वचनाद्भीमे कान्तारे स्थापिता नृप ॥२९॥ नानातिघोरनिःस्वानश्वापदौघनिषेविते । वेतालाकारदुःप्रेक्षदुमजालांधकारिते ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org