________________
पद्मपुराणम् ।
२३६
नवनवतितमं पर्व ।
दिनैस्त्रिभिरतिक्रम्य तदरण्यं सुभीषणम् । पुंडरीकसुराष्ट्रं सा प्रविष्टा साधुचेष्टिता ॥ ५ ॥ समस्तसस्यसंपद्भिस्तिरोहितमहीतलम् । ग्रामैः कुक्कुटसंपात्यैः पुराकरैर्विरार्जितम् ॥ ६ ॥ पुरैर्ना कपुरच्छायैरासेचनकदर्शनम् । पश्यंती विषयं श्रीमदुद्यानादिविभूषितम् ॥ ७ ॥ मान्ये भगवतिश्लाघ्ये दर्शनेन वयं तव । विधूतकिल्विषा जाता कृतार्था भवसंगिनः ॥ ८ ॥ एवं महत्तरप्रष्ठैः स्तूयमाना कुटुंबिभिः । सोपायनैर्नृपच्छायैर्वद्यमाना च भूरिशः ॥ ९ ॥ रचितार्घादिसन्मानैः पार्थिवैश्व सुरोत्तमैः । कृतप्रणाममत्युद्यं शस्यमाना पदे पदे ॥ १० ॥ अनुक्रमेण संप्राप. प्रौंडरीकपुरांतिकम् । मनोभिराममत्यंतं पौरलोकनिषेवितम् ॥ ११ ॥ वैदेह्यागमनं श्रुत्वा स्वाम्यादेशेन सच्चरम् । उपशोभा पुरे चक्रे परमाधिकृतैर्जनैः ॥ १२ ॥ परितः कृतसत्काराः रथ्याः सत्रिकचत्वराः । सुगंधिभिर्जलैः सिक्ताः कृताः पुष्पतिरोहिताः ॥ १३ ॥ इन्द्रचापसमानानि तोरणान्युच्छ्रितानि च । कलशाः स्थापिता द्वारे संपूर्णाः पल्लवानने ॥ १४ ॥ विलसद्ध्वजमालाढ्यं समुद्गतशुभस्वरम् । कर्त्तुं नृत्तमिवाऽऽसक्तं नगरं तत्प्रमोदवत् ।। १५ ।। गोपुरेण समं शालः समारूढमहाजनः । हर्षादिव परां वृद्धिं प्राप कोलाहलान्विताः ।। १६ ।। अन्तर्वहिश्च तत्स्थानं सीतादर्शनकांक्षिभिः । जंगमत्वमिति प्राप्तं जनौघैः प्रचलात्मकैः ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org