________________
पद्मपुराणम् ।
२३५
नवनवतितमं पर्व ।
अधिगत सम्यग्दृष्टिर्गृहीत परमार्थवोधिपूतात्मा । साधुरिव भावितात्मा व्रतगुणशीलार्थमुद्युक्तः १०३ चरितं सत्पुरुषस्य व्यपगतदोषं परोपकारनियुक्तम् ।
क्षपयति कस्य न शोकं जिनमतनिरतप्रगाढचेतस्कस्य ॥ १०४ ॥ नूनं पूर्वत्र भवे सहोदरस्त्वं च बभूवावितथप्रीतः । हरसि तमो मे येन स्फीतं रविवद्विशुद्धात्मा ॥ १०५ ॥
इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे सीतासमाश्वासनं नामाष्टनवतिमं पर्व ॥ ९८ ॥
अथ नवनवतितमं पर्व ।
अथ क्षणादुपानीतां सुस्तंभां भक्तिभासुराम् । विमानसदृशीं रम्यां सत्प्रमाणप्रतिष्ठिताम् ॥ १ ॥ वरदर्पणलंबूष चंद्रचामरहारिणीम् | हारबुद्बुद संयुक्तां विचित्रांशुकशालिनीम् ॥ २ ॥ प्रसारितमहामाल्यां चित्रकर्मविराजिताम् । सुगवाक्षां समारूढा शिविकां जनकात्मजा || ३॥ ऋद्धया परमया युक्ता महासैनिकमध्यगा । प्रतस्थे कर्मवैचित्र्यं चिन्तयन्ती सविस्मया ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org