SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २३४ अष्टनवतितमं पर्व। लंकाद्वीपेऽसि यत्प्राप्ता पत्या विद्याभूतां हृता । एकादशे दिवे भुक्ति मुक्तिमाल्यानुलेपना ॥१०॥ प्रतिपक्षे हते तस्मिन् प्रत्यानीता ततः सती । संप्राप्ताऽसि पुनः सौख्यं बलदेवप्रसादतः ॥९१॥ अशुभोदयतो भूयो गर्भाधानसमन्विता । विना दोषेण मुक्तासि परिवादोरगक्षता ॥ ९२ ॥ यः साधुकुसुमागारं प्रदीपयति दुर्गिरा । अत्यन्तदारुणः पापो बहिना दह्यातामसौ ॥ ९३ ॥ परमा देवि धन्या त्वमहो सुश्लाघ्यचेष्टिता । चैत्यालयनमस्कारदोहदं यदसि श्रिता ॥ ९४ ॥ अद्यापि पुण्यमस्त्येव तव सच्छीलशालिनि । दृष्टासि यन्मयाऽरण्ये प्राप्तेन द्विपकारणम् ।।९५ ॥ इंद्रवंशप्रसूतस्य शुभेकचरितात्मनः । राज्ञो द्विरदवाहस्य सुवंधुमहिषीभवः ॥९६ ॥ सुतोऽहं वज्रजंघाख्यः पुंडरीकपुराधिपः । त्वं मे धर्मविधानेन ज्यायसी गुणिनि स्वसा ॥९७॥ एयुत्तिष्ठोत्तमे यावः पुरं तामसमुत्सृज । राजपुत्रि कृतेऽप्यस्मिन् कार्य किंचिन्न सिद्धयति ॥९८॥ स्थितायास्तत्र ते पनः पश्चात्तापसमाकुलः । पुनरन्वेषणं साध्वि करिष्यति न संशयः ॥ ९९ ॥ परिभ्रष्टं प्रमादेन महाघगुणमुज्ज्वलम् । रत्नं को न पुनर्विद्वानन्विष्यति महादरः ॥१०॥ सांत्व्यमाना ततस्तेन धर्मसारकृतात्मना । धृति जगाम वैदेही परं प्राप्येव बांधवम् ॥ १०१ ॥ प्रशशंस च तं स त्वं भ्राता मे परमः शुभः । यशस्वी सुमतिः सत्त्वी शुरः सज्जनवत्सलः।।१०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy