________________
पद्मपुराणम् ।
२३३
अष्टनवतितमं पर्व ।
किं न वैदेहि ते ज्ञाता लोकेन स्थितिरीदृशी । अनित्याशरणकत्वान्यत्वादिपरिभाविनी ॥७७॥ मिथ्यादृष्टिबंधूर्यद्वद्यच्छोचसि मुहुर्मुहुः । श्रुताथैवासि साधुभ्यः सततं चारुभावने ॥ ७८ ॥ ननु जीवेन किं दुःखं न प्राप्तं मूढचेतसा । भवभ्रमणसक्तेन मोक्षमार्गमजानता ॥ ७९ ॥ संयोगा विप्रयोगाश्च भवसागरवर्तिना । क्लेशावनिमग्नेव प्राप्ता जीवेन भूरिशः ॥ ८०॥ खजलस्थलचारेण तिर्यग्योनिषु दुःसहम् । दुःखं जीवेन संप्राप्तं वर्षाशीतातपादिजम् ॥ ८१ ॥ अपमानपरीवादविरहाकोशनादिजम् । मनुष्यत्वेऽपि किं नाम दुःखं जीवन नार्जितम् ॥ ८२ ॥ कुत्सिताचारसंभूतं ततोत्कृष्टर्द्धिदृष्टिजम् । च्युतिजं च महादुःखं संप्राप्तं त्रिदशेष्वपि ॥ ८३ ॥ नरकेषु तु यदुःखं तत्कथं कथ्यतां शुभे । शीतोष्णक्षारशस्त्रौषव्यालान्योन्यसमुद्भवम् ।। ८४ ॥ विप्रयोगाः समुत्कण्ठा व्याधयो दुःखमृत्यवः। शोकाश्चानंतशः प्राप्ता भवे जीवन मैथिलि ॥५॥ तिर्यगृर्द्धमधस्ताद्वा स्थानं तन्नास्ति विष्टपे । जीवेन यत्र न प्राप्ता जन्ममृत्युजरादयः ॥ ८६ ॥ स्वकर्मवायुना शश्वद्भ्राम्यता भवसागरे । मनुष्यत्वेऽपि जीवेन प्राप्ता स्त्रीतनुरीदृशी ॥ ८७ ॥ कर्मभिस्तव युक्तायाः परिशेषैः शुभाशुभैः । अभिरामो गुणैः रामः पतिर्जातः शुभोदयः ॥४८॥ पुण्योदयं समं तेन परिप्राप्य सुखोदयम् । अपुण्योदयतो दुःखं पुनः प्राप्तासि दुःसहम् ॥८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org