________________
पद्मपुराणम् ।
२३२
अष्टवलित पर्व ।
सा भास्करप्रतीकाशा पंचचापशतोच्छ्रिता । प्रतिमा प्रतिरूपस्य दिव्या यस्य विराजते ॥ ६४ ॥ यस्याद्यापि महापूजा गंधर्वामरकिंनरैः । अप्सरोना गदैत्याद्यैः क्रियते यत्नतः सदा ॥ ६५ ॥ अनंतः परमः सिद्धः शिवः सर्वगतोऽमलः । अस्त्रैलोक्य पूजार्हः यः स्वयंभूः स्वयंप्रभुः ॥ ६६ ॥ तं कदा नु प्रभुं गत्वा कैलासे परमाचले । ऋषभं देवमभ्यर्च्य स्तोष्यामि सहितस्त्वया ॥ ६७ ॥ प्रस्थितस्य मया साकमेवं धृत्याऽतितुंगया । प्राप्ता जनपरीवादवार्त्ता दावाग्निदुःसहा ।। ६८ ।। चिंतितं मे ततो भर्त्रा प्रेक्षापूर्वविधायिना । लोकः स्वभाववक्रोऽयं नान्यथा याति वश्यताम् ।। ६९ ।। वरं प्रियजने त्यक्ते मृत्युरप्यनुसेवितः । यशसो नोपघातोऽयं कल्पान्तमवस्थितः ॥ ७० ॥ साहं जनपरीवादाद्विदुषा तेन विभ्यता । संत्यक्ता परमेऽरण्ये दोषेण परिवर्जिता ॥ ७१ ॥ विशुद्धकुलजातस्य क्षत्रियस्य सुचेतसः । विज्ञातसर्वशास्त्रस्य भवत्येवेदमीहितम् ॥ ७२ ॥ एवं निर्वाससंबंधं वृत्तान्तं स्वं निवेद्य सा । दीना रोदितुमारब्धा शोकज्वलनतापिता ॥ ७३ ॥ तामश्रुजलपूर्णास्यां क्षितिरेणुसमुत्क्षिताम् । दृष्ट्वा कुलिशजंघोऽपि चुक्षोभोत्तमसत्रभृत् ॥ ७४ ॥ ततो जनकराजस्य तनयामधिगम्य ताम् । समीपीभूय राजाऽसौ समाश्वासयदादृतः ॥ ७५ ॥ शोकं विरह मा रोदीर्जिनशासनभाविता । किमार्त्त कुरुषे ध्यानं देवि दुःखस्य वर्द्धनम् ॥ ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org