________________
पद्मपुराणम् ।
अष्टनवतितमं पर्व । राज्यपंकं परित्यज्य भरतो भरतोपमः । श्रामण्यं परमाश्रित्य सिद्धि धूतरजा ययौ ॥ ३८॥ अपत्यशोकनिर्दग्घा प्रव्रज्यासौ च केकया । देवी कृत्वा तपः सम्यग्देवलोकमुपागता ॥ ३९ ॥ महीतले विमोदो जनोऽयं दुष्टमानसः । ब्रवीति परिवादं मे शंकया परिवर्जितः ॥ ४०॥ रावणः परमः प्राज्ञो भूत्वाऽन्यस्त्रियमग्रहीत् । तामानीय पुना रामः सेवते धर्मशास्त्रवित् ॥४१॥ यया ह्यवस्थया राजा वर्तते दृढनिश्चयः । सैवाऽस्माकमपि क्षेमी नूनं दोषो न विद्यते ॥ ४२ ॥ साऽहं गर्भान्विता जाता कृशांगा वसुधातले । चिंतयंती जिनेंद्राणां करोम्यभ्यर्चनामिति ॥४३॥ ततो भर्ती मया सार्द्धमुद्युक्तश्चैत्यवंदने । जिनेंद्रातिशयस्थानेष्वत्यंतविभवान्वितः ॥ ४४ ॥ अगदीत् प्रथमं सीते गत्वाऽष्टापदपर्वतम् । ऋषभं भुवनानन्दं प्रणस्यावः कृतार्चनौ ॥ ४५ ॥ अस्यां ततो विनीतायां जन्मभूमिप्रतिष्ठिता । प्रतिमा ऋषभादीनां नमस्यावः सुसंपदा ॥४६॥ कांपिल्ये विमलं नंतुं यास्यावो भावतस्ततः । धर्म रत्नपुरे चैव धर्मसद्भावदेशिनम् ।। ४७॥ श्रावस्त्यां शंभवं शुभ्रं चंपायां वासुपूज्यकम् । पुष्पदंतं च काकंद्यां कौशांव्यां पद्मतेजसम्॥४८॥ चंदाभं चंद्रपुर्या च शीतलं भद्रिकावनौ । मिथिलायां ततो मल्लिं नमस्कृत्य जिनेश्वरम् ॥४९॥ वाराणस्यां सुपार्श्व च श्रेयांसं सिहनिःस्वने । शांति कुंथुमरे चैव पुरे हास्तिनि नामनि ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org