________________
पद्मपुराणम् ।
२२९
अष्टनवतितमं पर्व।
अस्य देवि गुणान् वक्तुं योऽखिलानभिवांछति । तरितुं स ध्रुवं वष्टि गात्रमात्रेण सागरम् ॥२५।। यावदेषा कथा तेषां वर्तते चित्तबंधिनी । तावन्नृपः परिप्राप्तः किंचिदद्भुतसंगतः ॥ २६ ॥ अवतीये करेणोश्च योग्यं विनयमुद्वहन् । निसर्गशुद्धया दृष्टया पश्यन्नेवमभाषत ॥ २७ ॥ अहो वज्रमयो नूनं पुरुषः सुविचेतनः । यतस्त्यजन्निहारण्ये त्वां न दीर्णः सहस्रधा ॥ २८ ॥ ब्रूहि कारणमेतस्या अवस्थायाः शुभाशये । विश्वस्ता भव मा भैषीर्गर्भायासं हि मा कृथा।॥२९॥ ततः कथयितुं कृच्छ्राद्विरताऽपि सती क्षणम् । पुना रुरोद शोकोरुचक्रपीडितमानसा ॥ ३० ॥ मुहस्ततोऽनुयुक्ता सा राज्ञा मधुरभाषिणा । धृत्वा मन्युं जगौ क्लिष्टहंसगद्गदनिःस्वना ॥३१॥ विज्ञातुं यदि ते वांछा राजन् यच्छ ततो मनः । कथा मे मंदभाग्याया इयमत्यंतदीर्घिका ॥३२॥ सुता जनकराजस्य प्रभामंडलसोदरा । स्नुषा दशरथस्याहं सीता पद्माभपत्तिका ॥ ३३ ॥ केकय्या वरदानेन भरताय निजं पदम् । दत्त्वाऽनरण्यपुत्रोऽसौ तपस्विपदमाश्रयत् ॥ ३४ ॥ रामलक्ष्मणयोः साकं मया प्रस्थितमायतम् । जातं श्रुतं त्वया नूनं पुण्यचेष्टितसंगतम् ॥ ३५ ॥ हृतास्मि राक्षणेन्द्रेण पत्युः सुग्रीवसंगमे । जाते भुक्तवती वाती संप्राप्यैकादशेऽहनि ॥३६॥ आकाशगामिभिर्यानरुत्तीर्य मकरालयम् । जित्वा दशमुखं युद्धे पत्याऽस्मि पुनराहता ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org