________________
पद्मपुराणम् ।
२२८
अष्टनवतितम पर्व। ततस्तान् सुमहाशोकध्वांतीकृतसमस्तदिक् । पुरुषान् सहसा दृष्टा नानाशस्त्रकरोज्ज्वलान् ॥१२॥ सीता त्राससमुत्पन्नपृथुवेपथुसंकुला । दातुमाभरणान्येषां लोलनेत्रा समुद्यता ॥ १३ ॥ तत्वमूढास्ततो भीता जगदुः पुरुषाः पुनः । संत्रास देवि शोकं च त्यज संश्रय धीरताम् ॥१४॥ किं वा विभूषणैरेभिस्तिष्ठन्तु त्वयि दक्षिणे । भावं योगं प्रपद्यस्व किमर्थमसि विह्वला ॥ १५ ॥ श्रीमानयं परिप्राप्तो वनजंघ इति क्षितौ । प्रसिद्धः सकलैयुक्तो राजधर्मेनरोत्तमः ॥ १६ ॥ सम्यग्दर्शनरत्नं यः सादृश्यपरिवर्जितम् । अविनाशमनाधेयमहायं सारसौख्यदम् ॥ १७ ॥ शंकादिमलनिर्मुक्तं हेमपर्वतानश्चलम् । हृदयेन समाधत्ते सचेता भूषणं परम् ॥ १८॥ सम्यग्दर्शनमीदृक्षं यस्य साध्वि विराजते । गुणास्तस्य कथं श्लाध्ये वर्ण्यन्तामस्मदादिभिः १९ जिनशासनतत्त्वज्ञः शरणागतवत्सलः । परोपकारसंसक्तः करुणादितमानसः ॥ २० ॥ लब्धवर्णो विशुद्धात्मा निंद्यकृत्यनिवृत्तधीः । पितेव रक्षिता लोक दाता भूतहिते रतः ॥२१॥ दीनादीनां विशेषेण मानुष्या अनुपालकः । शुद्धकर्मकरः शत्रुमहीधरमहाशनिः ॥ २२ ॥ शस्त्रशास्त्रकृतश्रांतिरश्रांतिः शांतिकर्मणि । जानात्यन्यकलत्रं च कूपं साजगरं यथा ॥ २३ ॥ धर्मे परममासक्तो भवपातभयात्सदा । सत्यस्थापितसद्वाक्यो बाढं नियमितेंद्रियः ॥ २४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org