________________
पद्मपुराणम् ।
२२७
अष्टनवतितमं पर्व।
अथाष्टनवतितमं पर्व । ततः पुरो महाविद्यानिरुद्धामिव जाह्नवीम् । चक्रीभृतां चमूं दृष्ट्वा वज्रजंघः करेणुगः ॥ १ ॥ पप्रच्छासनपुरुषान् यूयमेवं कुतः स्थिताः । कुतः केन प्रतीघातो गमनस्य किमाकुलाः ॥२॥ पारंयर्येण ते यावत्पृच्छंति स्म स्थितिकारणम् । तावत्किचित्समासीदं राजा शुश्राव रोदनम् ॥३॥ जगाद च समस्तेषु लक्षणेषु कृतश्रमः । यस्या रुदितशब्दोऽयं श्रूयते सुमनोहरः ॥ ४॥ विद्युद्गर्भरुचा सत्या गर्भिण्या प्रतिरूपया । ध्रुवं पुरुषपद्मस्य भवितव्यं स्त्रियाऽनया ॥५॥ एवमेतत्कुतो देव संदेहोऽत्र त्वयोदिते । अनेकमद्भुतं कर्म भवता हि पुरेक्षितम् ॥ ६॥ एवं तस्य सभृत्यस्य कथा यावत्प्रवर्तते । तावदग्रेसरा सीता समीपं सत्त्विनो गताः ॥ ७ ॥ पप्रच्छुः पुरुषा देवि का त्वं निर्मानुषे वने । विरौषि करुणं शोकमसंभाव्यमिदं श्रिता ॥८॥ न दृश्यते भवादृश्यो लोकेऽत्राकृतयः शुभाः। दिव्या किमसि किं वान्या काचित्सृष्टिरनुत्तमा ॥ यदीदमीदृशं धत्से वपुरक्लिष्टमुत्तमम् । ततोऽत्यंतं न चालक्ष्यः कोऽयं शोकस्तवापरः ॥१०॥ वद कल्याणि कथ्यं चेदिदं नः कौतुकं परम् । दुःखान्तोऽपि च सत्येवं कदाचिदुपजायतें ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org