________________
पद्मपुराणम् ।
सप्तनवतितम पर्व ।
अश्वीयमपि संरुद्धं पुरोभागमवस्थितम् । साशंकैरकृतप्रेरं सादिभिः श्रुतनिःस्वनैः ॥ १८७ ॥
कुतोऽत्र भीमेऽतितरामरण्ये । परासुताकारणभूरिसत्त्वे ॥ __ अयं निनादो रुदितस्य रम्यः । स्त्रैणो नु चित्रं परमं किमेतत् ॥ १८८ ॥ मृगमहिषतरक्षद्वीपिशार्दूललोले । समरशरभसिंहे कोलदष्ट्रान्तराले ॥
सुविमलशशिरेखाहारिणी केयमस्मिन् । हृदयहरणदक्षं कक्षमध्ये विरौति ॥१८९॥ सुरवरवनितेयं किन्नु सौधर्मकल्पादवनितलमुपेता पातिता वासवेन ॥
उत जनसुखगीता साऽनुदेवी विधात्री । भुवननिधनहेतोरागता स्यात्कुतोऽपि ॥ इति जनितवितर्क वर्जिताऽऽत्मीयदेशं । प्रजवसरणयुक्तैर्मलगैः पूर्यमाणम् ।।
प्रहतबहलतुलं तन्महावर्तकल्पं । स्थितमचलमुदारं सैनिकं विस्मयाढ्यम् ॥१९१।। तुरगमकरवृंदं प्रौढपादातमीनं । विधृतवरकरेणुग्राहूजालं सशब्दम् ।। रविकिरणविषक्तप्रस्फुरत्खड़वीचिप्रतिभयमभवत्तत्सैन्यमभोधिकल्पम् ॥ १९२ ॥ इत्याचे रविषेणाचार्यप्रोक्ते श्रीपद्मपुराणे सीतानिर्वासनविप्रलापवनजंघाभिधानं
नाम सप्तनवतितमं पर्व ॥ ९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org