________________
पद्मपुराणम् ।
२२४
सप्तनवतितमं पर्व ।
अथवा परुषैर्वाक्यैः कश्चित्फलविषोपमैः । निर्भमतो भवेऽन्यस्मिन् जातं यदुःखमीदृशम् १६१ अन्यत्र जनने मन्ये पद्मखंडस्थितं मया । चक्राहयुगलं भिन्नं स्वामिना रहितास्मि यत् १६२ किं वा सरसि पद्मादिभूषिते रचितालयम् । पुरुषाणामुदाराणां गतिलीलाविलंबकम् ॥ १६३ ॥ जल्पितेन वरस्त्रीणां सौंदर्येण कृतोपमम् । सौमित्रिसौधसच्छायं पद्मारुणमुखक्रमम् ॥ १६४ ॥ वियोजितं भवेऽन्यस्मिन्हंसयुग्मं कुचेष्टया । प्राप्तास्मि वासनं घोरं येनेदृक्षं हताशिका ॥१६५॥ गुंजाफलार्द्धवर्णाक्षमन्योन्यार्पितमानसम् । कृष्णागुरुभवात्यन्तघनोद्यद्भूमधूसरम् ॥ १६६ ॥ समारब्धसुखक्रीडं कंटस्थकलनिःस्वनम् । पारापतयुगं पापचेतसा स्यात्पृथक्कृतम् ॥ १६७ ॥ अस्थाने स्थापितं किं वा बद्धं मारितमेव वा । संभावनादिनिर्मुक्तं दुःखमीदृग्गताऽस्मि यत् १६८ वसंतसमये रम्ये किं वा कुसुमितांघ्रिपे । परपुष्टयुगं भिन्नं यस्येदं फलमीदृशम् ॥ १६९ ॥ अथवा श्रमणाःक्षान्ता सवृत्ता निर्जितेन्द्रियाः। निंदिता विदुषां वंद्या दुःखं प्राप्ताऽस्मि यन्महत्॥ सद्धृत्यपरिवारेण शासनानंदकारिणा । कृतसेवा सदा याहं स्थिता स्वर्गसमे गृहे ॥ १७१ ॥ साऽधुना क्षीणपुण्यौघा निबंधुग्रहणे वने । दुःखसागरनिर्ममा कथं तिष्ठामि पापिका ॥ १७२ ॥ नानारत्नकरोद्योते सत्प्रच्छदपटावृते । शयनीये महारम्ये सर्वोपकरणान्विते ॥ १७३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org