________________
पद्मपुराणम् ।
सप्तनवतितमं पर्व ।
निःसत्त्वस्य महामांसविक्रयं कुर्वतः सदा । निर्मदस्यास्वतंत्रस्य धिग्भृत्यस्यासुधारणम् ॥ १४८ ॥ भृत्यता करणीयेन कर्मणाऽस्मि वशीकृतः । एतां येन विमुंचामि प्रस्तावेऽप्यत्र दारुणे ॥ १४९ ॥ इति विमृश्य संत्यज्य सीतां धर्मधियं यथा । अयोध्याऽभिमुखोऽयासीत्सेनानीः सत्रपात्मकः ॥ इतराऽपि परिप्राप्तसंज्ञा परमदुःखिता । यूथभ्रष्टेव सारंगी बालाऽऽक्रन्दं समाश्रिता ॥ १५१ ॥ रुदत्याः करुणं तस्याः पुष्पमोक्षापदेशतः । वनस्पतिसमूहेन नूनं रुदितमेव तत् ।। १५२ ।। निसर्गरमणीयेन स्वरेण परिदेवनम् । ततोऽसौ कर्त्तुमारब्धा महाशोकवशीकृता ॥ १५३ ॥ हा पद्मेक्षण हा पद्म हा नरोत्तम हा प्रभो । यच्छ प्रतिवचो देव कुरु साधारणं मम ।। १५४ ।। सततं साधुचेष्टस्य सद्गुणस्य सचेतसः । न तेऽस्ति दोषगंधोऽपि महापुरुषतायुजः ॥ १५५ ॥ पुरा स्वयं कृतस्येदं प्राप्तं मे कर्मणः फलम् । अवश्यं परिभोक्तव्यं व्यसनं परमोत्कटम् || १५६ || किं करोतु प्रियोsपत्यो जनकः पुरुषोत्तमः । किं वा बांधवलोको मे स्वकर्मण्युदयस्थिते ।। १५७॥ नूनं जन्मनि पूर्वस्मिन्नसत्पुण्यमुपार्जितम् । मंदभाग्याजनेऽरण्ये दुःखं प्राप्ताऽस्मि यत्परम् १५८ अवर्णवचनं नूनं मया गोष्ठीष्वनुष्ठितम् । यस्योदयेन संप्राप्तमिदं व्यसनमीदृशम् ॥ १५९ ॥ गुरोः समक्षमादाय नूनमन्यत्र जन्मनि । व्रतं मया पुनर्भनं यस्येदं फलमीदृशम् || १६० ॥
२२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org