________________
पद्मपुराणम् ।
२२२
सप्तनवतितमं पर्व |
धरण्यां पतिता तस्यां मूर्च्छनिश्चेतनीकृता । रराज जानकी यद्वत्पर्यस्ता रत्नसंहतिः ॥ १३५ ॥ नष्टष्टां तां दृष्ट्ा सेनानीरतिदुःखितः । अचिंतयदियं प्राणान् दुष्करं धारयिष्यति ॥ १३६ ॥ अरण्येऽत्र महाभीष्मे व्यालसंघातसंकुले | विदधाति न धीरोऽपि प्रत्याशां जीवितं प्रति ॥ १३७ ॥ मृगाक्षीमेतिकां त्यक्त्वा विपिनेऽस्मिन्ननुत्तमे । स्थानं न तत्प्रपश्यामि यत्र मां शांतिरेष्यति ॥ इतो निर्दयताऽत्युग्रा स्वाम्याज्ञा निश्चिताऽन्यतः । अहो दुःखमहावर्त्तमध्यं प्राप्तोऽस्मि पापकः १३९ धिग्भृत्यतां जगन्नियां यत्किंचन विधायिनीम् । परायत्तीकृतात्मानं क्षुद्रमानवसेविताम् ॥ १४० ॥ यंत्र चेष्टिततुल्यस्य दुःखैकनिहितात्मनः । भृत्यस्य जीविताद्दूरं वरं कुक्कुरजीवितम् ॥ १४१ ॥ नरेन्द्रशक्तिवश्यः स निंद्यनामा पिशाचवत् । विदधाति न किं भृत्यः किं वा न परिभाषते ॥ १४२ ॥ चित्रचापसमानस्य निःकृत्यगुणधारिणः । नित्यनम्रशरीरस्य निंद्यं भृत्यस्य जीवितम् ॥ १४३॥ सत्कारकूटकस्येव पश्चान्निर्वृत्तचेतसः । निर्माल्यवाहिनो धिग्धिग्भृत्यनाम्नोऽसुधारणम् ॥ १४४॥ पश्चात्कृतगुरुत्वस्य तोयार्थमपि नामिन: । तुलायंत्रसमानस्य धिग्भृत्यस्या सुधारणम् || १४५ ।। उन्नत्या त्रपया दीप्तया वर्जितस्य निजेच्छया । मा स्म भ्रूज्जन्म भृत्यस्य पुस्तकर्मसमात्मनः १४६ विमानस्यापि मुक्तस्य गत्या गुरुतया समम् । अधस्ताद्गच्छतो नित्यं धिग्भृत्यस्यासुधारणम् १४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org