________________
દ
नवतितमं ।
पद्मपुराणम् ।
तदभव्यजुगुप्सातो भीतेन पुरुषोत्तम । न कथंचित्वया त्याज्यं नितान्तं तद्धि दुर्लभम् ।। १२२ ।। रत्नं पाणितलं प्राप्तं परिभ्रएं महोदधौ । उपायेन पुनः केन संगति प्रतिपद्यते ॥ १२३ ॥ क्षिप्त्वामृतफलं कूपे महाऽऽपत्तिभयंकरे । परं प्रपद्यते दुःखं पश्चात्तापहतः शिशुः ॥ १२४ ॥ यस्य तत्सदृशं तत्स प्रवदत्व निवारितः । कोह्यस्य जगतः कर्तुं शक्नोति मुखबंधनम् ॥ १२५ ॥ ears cart तत्स्वार्थनाशनकारणम् । एडेनेव न कर्त्तव्यं हृदये गुणभूषणः ॥ १२६ ॥ तीव्राज्ञोऽपि यथाभूतो जगदर्थावभासनात् । विकारमतनु प्राप्तो भवादित्य इव प्रियः ॥ १२७ ॥ भजस्व प्रस्खलं दानैः प्रीतियोगैर्निजं जनम् । परं च शीलयोगेन मित्रं सद्भावसेवनैः ।। १२८ ।। यथोपपन्नमन्नेन समेतमतिथिं गृहम् | साधून् समस्तभावेन प्रणमाभ्यर्चनादिभिः ।। १२९ ।। 1 क्षांत्या क्रोधं मृदुत्वेन मानं निर्विषया स्थितम् । माया मार्जवयोगेन धृत्या लोभं तनूकुरु ॥ १३० ॥ सर्वशास्त्रप्रवीणस्य नोपदेशस्तव क्षमः । चापलं हृदयस्येदं त्वत्प्रेमग्रहयोगिनः ॥ १३१ ॥ कृतं वश्यतया किंचित्परिहासेन वा पुनः । मयाऽविनयमीश त्वं समस्तं क्षन्तुमर्हसि ॥ १३२ ॥ raratर्शनं नूनं भवता सह मे प्रभो । पुनः पुनरतो वच्मि क्षेतव्यं साध्वसाधु वा ॥ १३३ ॥ इत्युक्त्वा पूर्वमेवासाववतीर्णा रथोदरात् । पपात धरणीपृष्ठे तृणोपलसमाकुले ॥ १३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org