________________
पद्मपुराणम् ।
सप्तनवतितमं पर्व |
संत्यज्य दुस्त्यजं स्नेहं दोहदानां नियोगतः । त्यक्तासि देव रामेण श्रमणेन रतिर्यया ॥ १०९ ॥ स्वामिन्यस्ति प्रकारोऽसौ नैव येन सविष्णुना । अनुनीतस्तवार्थेन न तथाप्यत्यजद्गृहम् ॥ ११० ॥ तस्मिन् स्वामिनि नीरागे शरणं तेऽस्ति न कचित् । धर्मसंबंधमुक्ताया जीवे सौख्यस्थितेरिव १११ न सवित्री न च भ्राता नैव बांधवसंहतिः । आश्रयस्तेऽधुना देवि मृगाकुलमिदं वनम् ॥ ११२ ॥ ततस्तद्वचनं श्रुत्वा वज्रेणेवाभिताडिता । हृदये दुःखसंभारव्याप्ता मोहमुपागता ॥ ११३ ॥ संज्ञां प्राप्य च कृच्छ्रेण स्खलितोद्गतवर्णगीः । जगादा पृच्छनं कर्तुं सकृन्मे नाथमीक्षय ॥ ११४ ॥ satata दूरं सा नगरी रहिताऽधुना । कुतः पश्यसि पद्माभं परमं चंडशासनम् ॥ ११५ ॥ ततोऽश्रुजलधाराभिः क्षालयंत्यास्य पंकजम् । तथापि निर्भरस्नेहरसाक्रांता जगाविदम् ॥ ११६ ॥ सेनापते त्वया वाच्यो रामो मद्वचनादिदम् । यथा मत्यागजः कार्यो न विषादस्त्वया प्रभो ११७ अवलंब्य परं धैर्य महापुरुष सर्वथा । सदा रक्ष प्रजां सम्यक्पितेव न्यायवत्सलः ॥ ११८ ॥ परिप्राप्तकलापारं नृपमाह्लादकारणम् । शरच्चंद्रमसं यद्वदिच्छन्ति सततं प्रजाः ॥ ११९ ॥ संसारादुःखनिर्घोरान्मुच्यन्ते येन देहिनः । भव्यास्तदर्शनं सम्यगाराधयितुमर्हसि ॥ १२० ॥ साम्राज्यादपि पद्माभ तदेव बहु मन्यते । नश्यत्येव पुना राज्यं दर्शनं स्थिरसौख्यदम् ॥ १२१ ॥
Jain Education International
२२०
For Private & Personal Use Only
www.jainelibrary.org