________________
पद्मपुराणम् ।
ર
सप्तनवतितमं पर्व। इति प्रतर्कमापन्ना दृष्ट्वा भागीरथीमसौ । एतद्घोषप्रतिस्वानं जानात्यन्यदिशि श्रुतम् ॥ ९६ ॥ अंतर्नक्रझपग्राहमकरादिविघट्टिताम् । उद्वतोर्मिसमासंगात क्वचित्कंपितपंकजाम् ॥ ९७ ॥ समूलोन्मूलितोत्तुंगरोधोगतमहीरुहाम् । विदारितमहाशैलग्रावसंघातरंहसम् ॥९८॥ समुद्रक्रोडपर्यस्ता सगरात्मजनिर्मिताम् । आरसातलगंभीरां पुलिनैः शोभितां सितैः ॥ ९९ ॥ फेनमालासमासक्तविशालाव-भैरवाम् । प्रांतावस्थितसस्वानशकुन्तगणराजिताम् ॥ १० ॥ अश्वास्ते तां समुत्तीर्णाः पवनोपमरंहसः । सम्यक् संसारयोगेन संसृति साधवो यथा ॥१०१॥ ततो मेरुवदक्षोभ्यचित्तोऽपि सततं भवन् । सेनानीः परमं प्राप विषादं सदयस्तदा ॥ १०२॥ किंचिद्वक्तुमशक्तात्मा महादुःखसमाहतः । नियन्तुमक्षमः स्थातुं प्रबलायातवाष्मकः ॥१०३॥ विधृत्य स्यन्दनं लग्नः कत्तु क्रन्दनमुत्कटम् । निधाय मस्तके हस्तो स्रस्तांगो विगतद्युतिः ॥१०४॥ ततो जगाद वैदेही प्रभ्रष्टहृदया सती । कृतांतवक कस्माचं विरोषीदं सुदुःखिवत् ॥ १०५॥ प्रस्तावेऽत्यंतहर्षस्य विषादयसि मामपि । विजनेऽस्मिन्महारण्ये कस्मादाश्रितरोदनः ॥ १०६॥ स्वाम्यादेशस्य कृत्यत्वाद्वक्तव्यत्वानियोगतः । कथंचिद्रोदनं कृत्वा यथावत्स न्यवेदयत् ॥१०७॥ विषाग्निशस्त्रसदृशं शुभे दुर्जनभाषितम् । श्रुत्वा देवेन दुःकीर्तिः परमं भयमीयुषा ॥ १०८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org