________________
सप्तनवतितमं पर्व ।
क्वचिद्वनपटच्छन्ननभोरात्रितमः समम् । दुरालक्ष्यपृथग्भावं विशालं वृक्षगह्वरम् ॥ ८३ ॥ च्युतपुष्पफला तन्वी विपत्रा विरला हिया । अटती कचिदच्छाया विधवा कुलजा यथा ॥ ८४ ॥ सहकारसमासक्ता कचित्सुंदरमाधवी । वेश्येव चपलासक्तमशोकमभिलष्यति ।। ८५ ।। महापादपसंघातः कचिद्दावविनाशितः । न भाति हृदयं साधोः खलवाक्याहतं यथा ॥ ८६ ॥ सुपल्लवलताजालैः कचिन्मंदानिलेरितैः । नृत्यं वसंतपत्नीव वनराजी निषेवते ॥ ८७ ॥ कचित्पुलिन्दसंघात महाकलकलावैः । उद्भूतविहगा दूरं गता सारंगसंहतिः ॥ ८८ ॥ कचिदुन्नतशैलाग्रं पश्यंती चोर्द्धमस्तका । विचित्रधातुनिर्माणैर्नयनैः कौतुकान्वितैः ॥। ८९ ।। कचिदच्छा पनीराभिः सरिद्भिः प्रोषितप्रिया । नारीवाश्रप्रपूर्णाक्षा भाति संतापशोभिता ॥ ९० ॥ नानाशकुंतनादेन जल्पतीव मनोहरम् । करोतीव कचिद्वी निर्झराहसं मुदा ॥ ९१ ॥ मकरंदातिलुब्धाभिभृंगी भिर्मंदमंथरम् । क्वचित्संस्तूयमानेव शोभते नमिता फलैः ॥ ९२ ॥ सत्पल्लव महाशाखैर्वृक्षैर्वायुविघूर्णितैः । उपचारप्रसक्तेव पुष्पवृष्टिं विमुंचते ।। ९३ ।। एवमादिक्रियासक्तामटलीं श्वापदाकुलाम् । पश्यंती याति वैदेही पद्माभापेक्षिमानसा ॥ ९४ ॥ तावच्च मधुरं श्रुत्वा स्वनमत्यंतमांसलम् | दध्यौ किंत्वेष रामस्य दुंदुभिर्ध्वनिरायतः ॥ ९५ ॥
पद्मपुराणम् ।
Jain Education International
२१८
For Private & Personal Use Only
www.jainelibrary.org