________________
पद्मपुराणम् ।
२१७
सप्तनवतितमं पर्व।
सुखं तिष्ठत सत्सख्यो नमस्कृत्य जिनालयान् । एषाऽऽहमाबजाम्येव कृत्या नोत्सुकता परा ॥७॥ एवं तदुक्तितः पत्युरनादेशाच्च योषितः । शेषा विहरणे बुद्धिं न चक्रुश्चारुभाषिताः ॥ ७१ ।। ततः सिद्धान्नमस्कृत्य प्रमोदं परमं श्रिता । प्रसन्नवदना सीता रथमारोहदुज्ज्वलम् ॥ ७२ ॥ सा तं रथं समारूढा रत्नकांचनकल्पितम् । रेजे सुरवधूर्यद्वद्विमानं रत्नमालिनी ॥ ७३ ॥ रथः कृतांतवक्त्रेण चोदितो वरवाजियुक् । ययौ भरतनिमुक्तो नाराच इव वेगवान् ॥ ७४॥ शुष्कद्रुमसमारूढो वायसोऽत्यंतमाकुलः । रराट विरसं धुन्वन्नसकृत्पक्षमस्तकम् ।। ७५ ॥ सुमहाशोकसंतप्ता धूतमुक्ता शिरोरुहा । रुरोदाभिमुखं नारी कुर्वती परिदेवनम् ॥ ७६ ।। पश्यंत्यप्येवमादीनि दुनिमित्तानि जानकी । बजत्येव जिनासक्तमानसा स्थिरनिश्चया ॥७७॥ महीभृच्छिखरश्वभ्रकंदरावनगहरम् । निमेषेण समुल्लंघ्य योजनं यात्यसो रथः ॥ ७८ ॥ तायवेगाश्वसंयुक्तः सितकेतुविराजितः । आदित्यरथसंकाशो रथो यात्यनिवारितः ॥ ७९ ॥ रामशक्रप्रियारूढो मनोरथजवो रथः । कृतांतमातलिक्षिप्रनुन्नाश्वः शोभतेतराम् ॥ ८० ॥ तत्रापाश्रयसंयुक्ततनुः सुपरमासना । याति सीता सुखं क्षोणी पश्यंती विविधामिति ॥ ८१॥ कचिद्ग्रामे पुरेऽरण्ये सरांसि कमलादिभिः । कुसुमैरतिरम्याणि तयाऽदृश्यंत सोत्सुकम् ।। ८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org