________________
पद्मपुराणम् ।
२१४
सप्तनवतितम पर्व। विचित्रस्यास्य लोकस्य तरंगसमचेष्टिनः । परदोषकथासक्तेनिग्रहं श्वो विधास्यति ॥ ३१ ॥ शिलामुत्पाख्य शीतांशु जिघांसुर्मोहवत्सलः । स्वयमेव नरो नाशमसंदिग्धं प्रपद्यते ॥ ३२ ॥ अभ्याख्यानपरो दुष्टस्तथा परगुणासहः । नियति दुर्गतिं जंतुर्दुःकर्मा प्रतिपद्यते ॥ ३३ ॥ बलदेवस्ततोऽवोचद्यथा वदसि लक्ष्मण | सत्यमेवमिदं बुद्धिमध्यस्था तव शोभना ॥ ३४ ॥ किन्तु लोकविरुद्धानि त्यजतः शुद्धिशालिनः । न दोषो दृश्यते कश्चिद्गुणश्चैकान्तसंभवः ॥३५।। सौख्यं जगति किं तस्य का वाऽऽशा जीवितं प्रति । दिशो यस्यायशोदावज्वालालीढाः समंततः॥ किमनर्थकृतार्थेन सविषेणौषधेन किम् । किं वीर्येण न रक्ष्यन्ते प्राणिनो येन भीगताः ॥ ३७॥ चारित्रेण न तेनार्थो येन नात्मा हितोद्भवः । ज्ञानेन तेन किं येन ज्ञातो नाध्यात्मगोचरः॥३८॥ प्रशस्तं जन्म नो तस्य यस्य कीर्त्तिवधू वराम् । बली हरति दुर्वादस्ततस्तु मरणं वरम् ॥३९॥ आस्तां जनपरीवादो दोषोऽप्यतिमहान्मम । परपुंसा हृता सीता यत्पुनर्गृहमाहृता ॥ ४०॥ रक्षसो भवनोद्याने चकार वसतिं चिरम् । अभ्यर्थिता च दूतीभिर्वदमानाभिरिक्षितम् ॥ ४१ ॥ दृष्टा च दुष्टया दृष्टया समीपावनिवर्तिना । असकृद्राक्षसेन्द्रेण भविता च यथेप्सितम् ॥ ४२ ॥ एवंविधां तकां सीतां गृहमानयता मया । कथं न लज्जितं किंवा दुष्करं मूढचेतसाम् ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org