________________
पद्मपुराणम् ।
सप्तनवतितम पर्व । कृतांतवक्रसेनानीः शब्दयतामाविलंबितम् । सीता गर्भद्वितीया मे गृहादद्यैव नीयताम् ।। ४४ ॥ एवमुक्त्वांजलिं बढ़ा सोमित्रिः प्रणतात्मकः । जगाद देव नो युक्तं त्यक्त्तुं जनकसंभवाम्॥४५॥ सुमादेवांघ्रिकमला तन्वी मुग्धा सुखैधिता । एकाकिनी यथा जातु क वदेही खिलेन वा ॥४६॥ गर्भभारसमाकांता परमं खेदमाश्रिता । राजपुत्री त्वया त्यक्ता संश्रयं कं प्रपद्यते ।। ४७ ॥ बलिपुष्पादिकं दृष्टं लोकेन तु जिनाय किम् । कल्प्यते भक्तियुक्तेन को दोषः परदर्शने ॥४८॥ प्रसीद नाथ निर्दोषामसूर्यपश्यकोमलाम् । माऽत्याक्षीमैथिली वीर भवदर्पितमानसाम् ॥ ४९ ॥ ततोऽत्यंतदृढीभूतविरागः क्रोधभारभार । काकुत्स्थः प्रवरोऽवोचदप्रसन्नमुखोऽनुजम् ॥ ५० ॥ लक्ष्मीधर न वक्तव्यं त्वया किंचिदतः परम् । मयैतनिश्चितं कृत्यमवश्यं साध्वसाधु वा ॥५१॥ निर्मानुष्ये वने त्यक्ता सहायपरिवर्जिता । जीवतु म्रियतां वाऽपि सीताऽऽत्मीयेन कर्मणा॥५२॥ क्षणमप्यत्र मे देशे मा शिष्टनगरेपि वा । कुत एव गृहे सीता मलवर्द्धनकारिणी ॥५३॥ चतुरश्वमथाऽऽरुह्य रथं सैन्यसमावृतः । जय नंदेति शब्देन बंदिभिः परिपूजितः ॥५४॥ समुच्छूितासितच्छत्रश्वापी कवचकुंडली । कृतांतवक्रसेनानीरीशितुः प्रस्थितोऽतिकम् ॥ ५५ ॥ तं तथाविधमायांतं दृष्ट्वा नगरयोषिताम् । कथा बहुविकल्पाऽऽसीद्वितकांगतचेतसाम् ॥ ५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org