________________
पद्मपुराणम् ।
सप्तनवतितमं पर्व । तच्चैतच्छस्त्रशास्त्राणां वयं नावर्णभाषितम् । देव्यामस्मद्गृहस्थायां सत्यामपि सुचेतसि ॥ १८ ॥ पश्यांभोजवनानन्दकारिणस्तिग्मतेजसः । अस्तं यानस्य को रात्री सत्यामस्ति निवर्त्तकः ॥ १९ ॥ अपवादरजोभिर्मे महाविस्तारगामिभिः । छायायाः क्रियते हानं मा भूदातपवारणम् ॥ २० ॥ शशांकविमलं गोत्रमकीर्त्तिघनलेखया । मारुधत्प्राप्य मां भ्रातरित्यहं यत्नतत्परः ॥ २१ ॥ शुष्केंधन महाकूटे सलिलाप्लाववर्जितः | मावर्द्धिष्ट यथावह्निरयशो भुवने कृतम् || २२ ॥ कुलं महाईमेतन्मे प्रकाशममलोज्ज्वलम् । यावत्कलंक्यते नाऽरं तावदौपायिकं कुरु ॥ २३ ॥ अपि त्यजामि वैदेहीं निर्दोषां शीलशालिनीम् । प्रमादयामि नो कीर्त्ति लोकसौख्यहृतात्मकः ॥ २४ ॥ ततो जगाद सौमित्रिर्भ्रातृस्नेहपरायणः । राजन्न खलु वैदेह्यां विधातुं शोकमर्हसि ।। २५ ।। लोकापवादमात्रेण कथं त्यजसि जानकीम् । स्थितां सर्वसतीमूनि सर्वाकारमनिंदिताम् ||२६|| असत्त्वं वक्ति दुर्लोकः प्राणिनां शीलधारिणाम् । न हि तद्वचनात्तेषां परमार्थत्वमश्नुते ॥ २७ ॥ गृह्यमाणोपिऽतिकृष्णोऽपि विषदूषितलोचनैः । सितत्वं परमार्थेन न विमुंचति चंद्रमाः ॥ २८ ॥ आत्मा शीलसमृद्धस्य जंतोर्व्रजति साक्षिताम् । परमार्थाय पर्याप्तं वस्तुत्वं न बाह्यतः ॥ २९ ॥ नो पृथग्जनवादेन संक्षोभं यांति कोविदाः । न शुनो भाषणाईती वैलक्ष्यं प्रतिपद्यते ॥ ३० ॥
Jain Education International
२१३
For Private & Personal Use Only
www.jainelibrary.org