________________
पद्मपुराणम् ।
सप्तनवतितम पर्व । शत्रुघ्नाग्रेसराः भूपाश्चंद्रोदयसुतादयः । तथाऽविशन् कृतानुज्ञा आसीनाश्च यथोचितम् ॥ ५॥ पुरोहितः पुरः श्रेष्ठी मंत्रिणोऽन्ये च सज्जनाः । यथायोग्यं समासीनाः कुतूहलसमन्विताः ॥६॥ ततः क्षणमिव स्थित्वा बलदेवो यथाक्रमम् । लक्ष्मणाय परीवादसमुत्पत्तिं न्यवेदयत् ॥ ७॥ तदाकण्यं सुमित्राजो रोषलोहितलोचनः । सन्नद्धमादिशन् योधानिदं च पुनरभ्यधात् ॥ ८॥ अद्य गच्छाम्यहं शीघ्रमन्तजनवारिधेः । करोमि धरणीं मिथ्यावाक्यजिह्वतिरोहिताम् ॥९॥ उपमानविनिर्मुक्तशीलसंभारधारिणीम् । द्विषंति गुणगंभीरां सीतां ये तान्नये क्षयम् ॥ १० ॥ ततो दुरीक्षितां प्राप्तं हरिं क्रोधवशीकृतम् । संक्षुब्धसंसदं वाक्यैरिमैरसमयन्नृपः ॥ ११ ॥ सौम्यर्षभकृतौपम्यैः सदृक्षैर्भरतस्य च । महीसागरपर्यन्ता पालितेयं नरोत्तमैः ॥ १२ ॥ इक्ष्वाकुवंशतिलका आदित्ययशसादयः । आसन्नेषां रणे पृष्ठं दृष्टं नेंदोरिवारिभिः ॥ १३ ॥ तेषां यशःप्रतानेन कौमुदीपटशोभिना । अलंकृतमिदं लोकत्रितयं रहितांतरम् ॥ १४ ॥ कथं तद्रागमात्रस्य कृते पापस्य भंगिनः । वहनिरर्थकं प्राणान् विदधामि मलीमसम् ॥ १५ ॥ अकीर्तिः परमल्पापि याति वृद्धिमुपेक्षिता । कीर्तिरल्पापि देवानामपि नाथैः प्रयुज्यते ॥ १६ ॥ भोगैः किं परमोदारैरपि प्रक्षयवत्सलैः । कीर्युद्यानं प्ररूढं यद्दह्यतेऽकीर्तिवह्निना ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org