SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । सप्तनवतितम पर्व । एतां यदि न मुंचामि साक्षाद्दुःकीर्तिमुद्गताम् । कृपणो मत्समो मह्यां तदैतस्यां न विद्यते ॥७१॥ स्नेहापयादभयसंगतमानसस्य व्यामिश्रतीवरसवेगवशीकृतस्य । रामस्य गाढपरितापसमाकुलस्य कालस्तदा निरुपमः स बभूव कच्छः ॥ ७२ ॥ विरुद्धपूर्वोत्तरमाकुलं परं विसंधिसातेतरवेदनान्वितम् । अभूदिदं केसरिकेतुचिंतनं । निदाघमध्याहरवेः सुदुःसहम् ॥ ७३ ॥ इत्यार्षे श्रीरविषेणाचार्यप्रोक्ते श्रीपद्मपुराणे जनपरीवादचिंताभिधानं नाम षण्णवतिम पर्व ।। ९१ ॥ अथ सप्तनवतितमं पर्व । ततः कथमपि न्यस्य चिंतामेकत्र वस्तुनि । आज्ञापयत्प्रतीहारं लक्ष्मणाकारणं प्रति ॥ १॥ प्रतीहारवचः श्रुत्वा लक्ष्मणः संभ्रमान्वितः । तुरंग चलमारुह्य कृत्येक्षागतमानसः ॥ २॥ रामस्यासन्नतां प्राप्य प्रणिपत्य कृतांजलिः । आसीनो भूतले रम्ये तत्पादनिहितेक्षणः ॥३॥ स्वयमुत्थाप्य तं पद्मो विनयानतविग्रहम् । परमाश्रयतामा चक्रेर्धासनसंगतम् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy