________________
पद्मपुराणम्।
षण्णवतितम पर्व ।
युक्तं जनपदो वक्ति दुष्टपुंसि परालये । अवस्थिता कथं सीता लोकनिंद्या मया हृता ॥५८ ॥ अपश्यन् क्षणमात्रं यां भवामि विरहाकुलः । अनुरक्तां त्यजाम्येतां दयितामधुना कथम् ॥५९॥ चक्षुर्मानसयोर्वासं कृत्वाऽवस्थिता मम । गुणधानीमदोषां तां कथं मुंचामि जानकीम् ॥ ६ ॥ अथवा वेत्ति नारीणां चेतसः को विचेष्टितम् । दोषाणां प्रभवो यासु साक्षादसति मन्मथः॥६॥ धिस्त्रियं सर्वदोषाणामाकरं तापकारणम् । विशुद्धकुलजातानां पुंसां पंकं सुदुस्त्यजम् ॥ ६२ ॥ अभिहंत्रीं समस्तानां बलानां रागसंश्रयाम् । स्मृतीनां परमं भ्रशं सत्यस्खलनखातिकाम् ॥६३॥ विघ्नं निर्वाणसौख्यस्य ज्ञानप्रभवसूदनीम् । भस्मच्छन्नाग्निसंकाशा दर्भसूचीसमानिकाम् ॥६॥ दृङ्मात्ररमणीयां तां निर्मुक्तमिव पन्नगः । तस्मात्त्यजामि वैदेहीं महादुःखजिहासया ॥ ६५ ॥ अशून्यं सर्वदा तीव्रस्नेहबंधवशीकृतम् । यया मे हृदयं मुष्यं विरहामि कथं तकाम् ॥ ६६ ।। यद्यप्यहं स्थिरस्वान्तस्तथाप्यासन्नवर्तिनी । अर्चिन्मम वैदेही मनोविलयनक्षमा ॥६७ ॥ मन्ये दूरस्थिताऽप्येषा चंद्ररेखा कुमुद्वतीम् । यथा चालयितुं शक्ता धृतिं मम मनोहरा ॥ ६८ ॥ इतो जनपरीवादश्चेतःस्नेहः सुदुस्त्यजः । आहोऽस्मि भयरागाभ्यां प्रक्षिप्तो गहनांतरे ॥ ६९ ॥ श्रेष्ठा सर्वप्रकारेण दिवौकोयोषितामपि । कथं त्यजामि नां साध्वी प्रीत्या यातामिवैकताम् ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org