________________
पद्मपुराणम् ।
२०९
षण्णवतितम पर्व । प्रलीनधर्ममर्यादा यावन्नश्यति नावनिः । उपायश्चित्यतां तावत्प्रजानां हितकाम्यया ॥ ४५ ॥ राजा मनुष्यलोकेऽस्मिन्नधुना त्वं यदा प्रजाः । न पासि विधिना नाशमिमा यांति तदा ध्रुवम् ॥ नाद्यानसभाग्रामप्रपाध्वपुरवेश्मसु । अवर्णवादमेकं ते मुक्त्वा नान्यास्ति संकथा ॥ ४७ ।। स तु दाशरथी रामः सर्वशास्त्रविशारदः । हृतां विद्याधरेशेन जानकी पुनरानयत् ।। ४८ ॥ तत्र नूनं न दोषोऽस्ति कश्चिदप्येवमाश्रिते । व्यवहारेऽपि विद्वांसः प्रमाणं जगतः परम् ॥४९।। किं च यादृशमुर्तीशः कर्मयोग निषेवते । स एव सहतेऽस्माकमपि नाथानुवर्तिनाम् ॥५०॥ एवं प्रदुष्टचित्तस्य वदमानस्य भूतले । निरंकुशस्य लोकस्य काकुत्स्थ कुरु निग्रहम् ॥ ५१ ॥ एक एव हि दोषाध्यमभविष्यन्न चेत्ततः । व्यलंबयिष्यदेतत्ते राज्यमाखंडलेशताम् ॥५२॥ एवमुक्तं समाकर्ण्य क्षणमेकमभून्नृपः। विषादमुद्राघातविचलबृदयो भृशम् ॥ ५३॥ अचिंतयच्च हा कष्टमिदमन्यत्समागतम् । यद्यशोंबुजखंडं मे दग्धुं लग्नोऽयशोऽनलः ॥ ५४ ॥ यत्कृतं दुःसहं सोढं विरहव्यसनं मया । सा क्रिया कुलचंद्र मे प्रकरोति मलीमसम् ॥ ५५ ॥ विनीतां यां समुद्दिश्य प्रवीराः कपिकेतवः । करोति मलिनां सीता सा मे गोत्रकुमुद्वतीम् ॥५६॥ यदर्थमब्धिमुत्तीय रिपुध्वसि रणं कृतम् । करोति कलुषं सा मे जानकी कुलदपणम् ॥ ५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org