________________
पद्मपुराणम् ।
णवतितमं पर्व |
३५ ॥
चिरादुत्सहते वक्तुं मतिर्यद्यपि कृच्छ्रतः । निःक्रामति तथाप्येषा वागारान्न वाग्वधूः ॥ ३२ ॥ गिरा सांत्वनकारिण्या पद्मः पुनरभाषत । ब्रूत स्वागतिनो ब्रूत कैमर्थ्येन सभागताः ।। ३३ ॥ इत्युक्ता अपि ते भूयः समस्तकरणोज्झिताः । तस्थुः पुस्त इव न्यस्ताः सुनिष्णातेन शिल्पिना || पाशकण्ठबद्धास्ते किंचिचंचललोचनाः । अर्भका इव सारंगा जगुराकुलचेतसः ततः प्राग्रहरस्तेषामुवाच चलिताक्षरम् | देवाभयप्रसादेन प्रसादः क्रियतामिति ।। ३६ ।। ऊचे नरपतिर्भद्रा न किंचिद्भवतां भयम् । प्रकाशयत चित्तस्थं स्वस्थतामुपगच्छत ॥ ३७ ॥ अवद्यं सकलं त्यक्त्वा साध्विदानीं भजाम्यहम् | मिश्रीभूतं जलं त्यक्त्वा यथा हंसः स्तनोद्भवम् ॥ अभयेऽपि ततो लब्धे कुच्छप्रस्थापिताक्षरः । जगाद मंदनिःस्वानो विजयोंऽजलिमस्तकः ।। ३९ ।। विज्ञाप्यं श्रूयतां नाथ पद्मनाभ नरोत्तम । प्रजाधुनाऽखिला जाता मर्यादारहितात्मिका ॥ ४० ॥ स्वभावादेव लोकोऽयं महाकुटिलमानसः । प्रकटं प्राप्य दृष्टान्तं न किंचित्तस्य दुष्करम् ||४१ || परमं चापलं धत्ते निसर्गेण प्लवंगमः । किमंग पुनरारुह्य चपलं यंत्रपंजरम् ॥ ४२ ॥ तरुण्यो रूपसंपन्नाः पुंसामल्पबलात्मनाम् । हियन्ते बलिभिः छिद्रे पापचित्तैः प्रसह्य च ॥ ४३ ॥ प्राप्तदुःखां प्रियां साध्वीं विरहात्यंत दुःखितः । कश्चित्सहायमासाद्य पुनरानयते गृहम् ॥ ४४ ॥
Jain Education International
२०८
For Private & Personal Use Only
www.jainelibrary.org