________________
पद्मपुराणम्।
२०७
षण्णवतितमं पर्व । यथाज्ञापयसीत्युक्त्वा द्रविणाधिकृतो ययौ । इयमप्यादरे तस्थौ जिनपूजादिगोचरे ॥ १९ ॥ ततो जिनेंद्रगेहेषु तूर्यशब्दाः समुद्ययुः । शंखकोटिरवोन्मिश्राः प्रावृद्घनरवोपमाः ॥ २० ॥ जिनेंद्रचरितन्यस्तचित्रपट्टाः प्रसारिताः । पयोघृतादिसंपूर्णाः कलशाः समुपाहृताः ॥ २१ ॥ ऋषितांगो द्विपारूढः कंचुकी सितवस्त्रभृत् । कः केनार्थीत्ययोध्यायां घोषणामददात्स्वयम् ॥२२॥ एवं सुविधिना दानं महोत्साहमदीयत । विविधं नियमं देवी निजशक्त्या चकार च ॥ २३ ॥ प्रावर्त्यन्त महापूजा अभिषेकाः सुसंपदः । पापवस्तुनिवृत्तात्मा बभूव समधीर्जनः ॥ २४ ॥ इतिक्रियाप्रसक्तायां सीतायां शांतचेतसि । आस्थानमंडपे तस्थौ दर्शने शक्रवदलः ॥ २५ ॥ प्रतीहारविनिर्मुक्तद्वाराः संभ्रांतचेतसः । ततो जनपदाः सैंह धामेवास्थानमाश्रिताः ॥ २६ ॥ रत्नकांचननिर्माणामदृष्टां जातुचित्पुनः । सभामालोक्य गंभीरां प्रजानां चलितं मनः ॥ २७ ॥ हृदयानंदनं राममालोक्य नयनोत्सवम् । उल्लसन्मनसो नेमुः प्रवद्धांजलयः प्रजाः ॥ २८ ॥ वीक्ष्य कंपितदेहास्ता मुहुः कंपितमानसाः । पद्मो जगाद भो भद्रा बतागमनकारणम् ॥२९॥ विजयोऽथ सुराजिश्च मधुमान् वसुलो धरः। काश्यपः पिंगलः कालः क्षेमाद्याश्च महत्तराः॥३०॥ निश्चलाश्चरणन्यस्तलोचना गलितौजसः । न किंचिदचुराकान्ताः प्रभावेण महीपतेः ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org