________________
पद्मपुराणम्।
२०६
षण्णवतितमं पर्व । उपगुण्य प्रयत्नेन सिंतांशुकमिवांशुमान् । पालयन्नपि नित्यं स्वं कर्मणां फलमश्नुते ॥६॥ अगदच्च विचेतस्का देव्यो ब्रूत श्रुतागमाः । सम्यग्विचार्य मेऽधरतान्नेत्रस्यंदनजं फलम् ॥ ७ ॥ तासामनुमती नाम देवी निश्चयकोविदा । जगाद देवी को नाम विधिरन्योऽत्र दृश्यते ॥८॥ यत्कर्म निर्मितं पूर्व सितं मलिनमेव वा । स कृतांतो विधिश्चासौ दैवं तच्च तदीश्वरः ॥९॥ कृतांतेनाहमानीता व्यवस्थामेतिकामिति । पृथनिरूपणं तत्र जनस्याज्ञानसंभवम् ॥ १० ॥ अथातो गुणदोषज्ञा गुणमालेति कीर्तिता । जगाद सांत्वनोद्युक्ता देवी देवनयान्विताम् ॥११॥ देवि त्वमेव च देवस्य सर्वतोऽपि गरीयसी । तवैव च प्रसादेन जनस्यान्यस्य संयुता ॥ १२ ॥ ततोहं न प्रपश्यामि सुयुक्तेनापि चेतसा । यत्ते यास्यति दुःखस्य कारणत्वं सुचेष्टिते ॥ १३ ॥ अन्यास्तत्र जगुर्देव्यो देव्यत्र जनितेन किम् । वितर्कणविशालेन शान्तिकर्म विधीयताम् ॥१४॥ अभिषेकैर्जिनेन्द्राणामत्युदारैश्च पूजनैः । दानैरिच्छाभिपूरैश्च क्रियतामशुभेरणम् ॥ १५ ॥ एवमुक्ता जगौ सीता देव्यः साधु समीरितम् । दानं पूजाभिषेकश्च तपश्चाशुभसूदनम् ॥ १६ ॥ विघ्नानां नाशनं दानं रिपूणां वैरनाशनम् । पुण्यस्य समुपादानं महतो यशसस्तथा ॥ १७ ॥ इत्युक्त्वा भद्रकलशं समाहाय जगाविति । किमिच्छदानमास्तेर्दीयतां प्रतिवासरम् ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org