SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २०५ अमृताहारविलेपनशयनासनवासगंधमाल्यादिभवम् । शब्दरसरूपगंधस्पर्शसुखं तत्र राम आपोदारम् || ५६ ॥ एवं जिनेंद्रभवने प्रतिदिन पूजाविधानयोगरतस्य । रामस्य रतिः परमा जाता रवितेजसः सुदारयुतस्य ॥ ५७ ॥ इत्यार्षे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे जिनेन्द्रपूजा दोहदाभिधानं नाम पंचनवतितमं पर्व ॥ ९५ ॥ Jain Education International षण्णवतितमं पर्व | अथ षण्णवतितमं पर्व | उद्यानेऽवस्थितस्यैवं राघवस्य सुचेतसः । तृषिता इव संप्रापुः प्रजा दर्शनकांक्षया ॥ १ ॥ श्रावितं प्रतिहारीभिः पारंपर्यात्प्रजागमम् । विज्ञाय दक्षिणस्याक्ष्णः स्पंदं प्राप विदेहजा ॥ २ ॥ अर्चितयश्च किं त्वेतन्निवेदयति मे परम् | दुखस्यागमनं नेत्रमधस्तात्स्पंदनं भजत् ॥ ३ ॥ पापेन विधिना दुःखं प्रापिता सागरांतरे । दृष्टस्तेन न संतुष्टः किमन्यत्प्रापयिष्यति ॥ ४ ॥ निर्मितानां स्वयं शश्वत्कर्मणामुचितं फलम् । ध्रुवं प्राणिभिरराप्तव्यं न तच्छक्यं निवारणम् ||५|| For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy