________________
पद्मपुराणम् ।
२०४
पञ्चनवतितम पर्व।
ऐरावतपृष्टगतः शच्या यथा दिवौकसा नाथः ॥ ४९ ॥ नारायणोऽपि च यथा परमामृद्धिं समुद्वहन् याति स्म ।
शेषजनश्च सदाई हृष्टःस्फीतो मदानपानसमृद्धः ॥ ५० ॥ कदलीगृहमनोहरगृहेष्वतिमुक्तकमंडपेषु च मनोज्ञेषु ।।
देव्यःस्थिता महद्धर्यो यथार्हमन्यो जनश्चसुखमासीनः ॥५१॥ अवतीर्य गजादामः कामःकमलोत्पलसंकुले समुदारे ।
सरसि सुखं विमलजले रेमे क्षीरोदसागरे शक इव ।। ५२ ॥ तस्मिन् संक्रीड्य चिरं कृत्वा पुष्पोच्चयं जलादुत्तीर्य ।
दिव्येनाचेनविधिना वैदेह्या संगतो जिनानानचे ॥ ५३ ॥ रामो मनोभिरामः काननलक्ष्मीसमाभिरुद्यस्त्रीभिः ।
क्षतपरिचरणो रेजे वसंत इव मूर्तिमानुपेतः श्रीमान् ॥ ५४ ॥ देवीभिरनुपमाभिःसोऽष्टसहस्रप्रमाणसंसक्ताभिः । रेजे निर्मलदेहस्ताराभिरिवावृतो ग्रहाणामाधिपः ॥ ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org