________________
पद्मपुराणम् ।
२०३
पवनवतितमं पर्व |
महागिरिगुहाद्वारगंभीरेषु मनोहराः । स्थापिताः पूर्णकलशाः सुहारादिविभूषिताः ॥ ३८ ॥ मणिचित्रसमाकृष्टचित्राः परमपट्टकाः । प्रसारिता विशालासु हेममंडलभित्तिषु ॥ ३९ ॥ अत्यन्तविमलाः शुद्धाः स्तंभेषु मणिदर्पणाः । हारा गवाक्षवत्रेषु स्वच्छनिर्झरहारिणः ॥ ४० ॥ विचित्रा भक्तयो न्यस्ता रत्नचूर्णेन चारुणा । विभक्ताः पंचवर्णेन पादगोचर भूमिषु ॥ ४१ ॥ न्यस्तानि शतपत्राणि सहस्रच्छदनानि च । देहलीकांडयुक्तानि कमलान्यपरत्र च ॥ ४२ ॥ हस्तसंपर्कयोग्येषु स्थानेषु कृतमुज्ज्वलम् । किंकिणी जालकं मत्तकामिनीसमनिःस्वनम् ॥ ४३ ॥ पंचवर्णैर्विकाराढ्यैचामरैर्मण्डिदंड कैः । संयुक्ताः पदलंबूषाः स्वायतांगाः प्रलंबिताः ॥ ४४ ॥ माल्यान्यत्यन्त चित्राणि प्रापितानि प्रसारणम् । सौरभाकृष्टभृंगाणि कृतान्युत्तमशिल्पिभिः।। ४५ ।। विशालातोद्यशालाभिः कल्पिताभिश्च नैकशः । तथा प्रेक्षकशालाभिः तदुद्यानमलंकृतं ॥ ४६ ॥ एवमत्यंतचार्वीभिरत्युर्वीभिर्विभूतिभिः । महेन्द्रोदय मुद्यानं जातं नंदनसुंदरम् ॥ ४७ ॥ अथभूत्यासुरपतिवत्स पुरजनपदसमन्वितो देवभिः । सर्वामात्यसमेतः पद्मः सीतान्वितो ययावुद्यानम् ॥ ४८ ॥ परमं गजमारूढः सीतायुक्तो रराज बाढं पद्मः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org