SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २०२ पञ्चनवतितमं पर्व । वीक्ष्य पृच्छसि पद्माभः किं ते कान्ते मनोहरम् । संपादयाम्यहं ब्रूहि दोहकं किमसीदृशी ||२५|| ततःसंस्मित्य वैदेही जगाद कमलानना । नाथ चैत्यालयान्द्रष्टुं भूरीन् वांछामि भूतले ॥ २६ ॥ त्रैलोक्य मंगलात्मभ्यः पंचवर्णेभ्य आदरात् । जिनेंद्र प्रतिबिंवेभ्यो नमस्कर्तुं ममाशयः ।। २७ ।। हेमरत्नमयैः पुष्पैः पूजयामि जिनानिति । इयं मे महती श्रद्धा किमन्यदभिवांछ्यते ॥ २८ ॥ एवमाकर्ण्य पद्माभः स्मेरवक्त्रः प्रमोदवान् । समादिशत्प्रतीहारीं तत्क्षणप्रणतांगिकाम् ॥ २९ ॥ अयि कल्याणि ! निक्षेपममात्यो गद्यतामिति । जिनालयेषु क्रियतामर्चना महतीत्यलम् ||३०|| महेंद्रोदय मुद्यानं समेत्य सुमहादरम् । क्रियतां सर्वलोकेन सुशोभा जिनवेश्मनाम् ॥ ३१ ॥ तोरणैर्वैजयंती भिघंटालंबूषबुद्बुदैः । अर्धचन्द्रैर्वितानैव वस्त्रैश्च सुमनोहरैः || ३२ || तथोपकरणैरन्यैः समस्तैरतिसुन्दरैः । लोको मह्यां समस्तायां करोतु जिनपूजनम् ॥ ३३ ॥ निर्वाणधाम चैत्यानि विभूष्यन्तां विशेषतः । महानंदाः प्रवर्त्यन्तां सर्वसंपत्ति संगताः ॥ ३४ ॥ कल्याणं दोहदं तेषु वैदेह्याः प्रतिपूजयन् । विहराम्यनया साकं महिमानं समेधयन् ॥ ३५ ॥ आदिष्टया तयेत्यात्मपदे कृत्वाऽऽत्मसम्मिताम् | यथोक्तं गदितोऽमात्यस्तेनादिष्टाः स्वकिंकराः ।। व्यतिपत्य महोद्योगैस्ततस्तैः सम्मदान्वितैः । उपशोभी जिनेंद्राणामालयेषु प्रवर्त्तिता ॥ ३७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy