SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । पञ्चनवतितमं पर्व | पद्मनाराचसंयुक्तः केसरापूरितेषुधिः । गीयमानोऽमलश्लोकैर्मधुत्रतकदंबकैः ॥ १२ ॥ कदंबघनवातेन हारिणा निःश्वसन्निव । मल्लिकाकुसुमोद्यतैः शत्रूनन्यान्हसन्निव ॥ १३ ॥ कलपुंस्कोकिलापैर्जल्पन्निव निजोचितम् । विभ्रन्नरपते लीलां लोकाकुलत्वकारिणीम् ॥ १४ ॥ अकोठनखरो विद्दष्ट्रा कुरबकात्मिकाम् । लोहिताशोकनयनश्चलपल्लवजिह्नकः ।। १५ ॥ वसंतसरी प्राप्तो विवेश जनमानसम् । नीयमानः परं त्रास सिंहकेसरकेसरः ॥ १६ ॥ रमणीय स्वभावेन वसंतेन विशेषतः । महेंद्रोदयमुद्यानं जातं नंदनसुंदरम् ॥ १७ ॥ विचित्रकुसुमा वृक्षा विचित्रचलपल्लवाः । मत्ता इव विघूर्णन्ते दक्षिणानिलसंगताः ॥ १८ ॥ सद्मोत्पलादिसंछन्नाः शकुंतगणनादिताः । वाप्यो वरं विराजते जनसेवितरोधसः ।। १९ ।। हंससारसचक्राढकुरराणां मनोहराः । स्वनाः कारंडवानां च प्रवृत्ता रागिदुःसहाः ॥ २० ॥ निपातोत्पतनैस्तेषां विमलं लुलितं जलम् । प्रमोदादिव संवृत्तं तरंगाढ्यं समाकुलम् || २१ ॥ पद्मादिभिर्जलं व्याप्तं स्थलं कुरवकादिभिः । गगनं रजसा तेषां वसंते जृंभिते सति ।। २२ ।। गुच्छगुल्मलतावृक्षप्रकारा बहुधा स्थिताः । वनस्पतेः परां शोभामुपग्मुः समंततः ॥ २३ ॥ काले तस्मिन्नरेंद्रस्य जनकस्य शरीरजाम् । किंचिद्गर्भकृतश्रांतिकृशीभूतशरीरिकाम् ॥ २४ ॥ २०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy