SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २०० Jain Education International अथ पञ्चनवतितमं पर्व । एवं दिनेषु गच्छत्सु भोगसंभारयोगिषु । धर्मार्थकामसंबन्धनितान्तरतिकारिषु ॥ १ ॥ विमानाभेऽन्यदा सुप्ता भवने जानकी सुखम् । शयनीये शरन्मेघमाला संमितमार्दवे ॥ २ ॥ अपश्यत्पश्चिमे यामे स्वप्नमं भोजलोचना । दिव्यतूर्यनिनादैश्व मंगलवधमागता ॥ ३ ॥ ततोऽतिविमले जाते प्रभाते संशयान्विता । कृतदेहस्थितिः कान्तमियाय सुसखीवृता ॥ ४ ॥ अपृच्छच्च मया नाथ स्वप्नो योऽद्य निरीक्षितः । अर्थ कथयितुं तस्य लब्धवर्णत्वमर्हसि ।। ५ ।। शरदिन्दुसमच्छायौ क्षुब्धसागरनिःस्वनौ । कैलासशिखराकारौ सर्वालंकारभूषितौ ॥ ६ ॥ कांतिमत्सितसदंष्ट्रौ प्रवरौ शरभोत्तमौ । प्रविष्टौ मे मुखं मन्ये विलसत्सितकेसरौ ॥ ७ ॥ शिखरात्पुष्पकस्याथ संभ्रमेणोरुणान्विता । वातनुन्ना पताकेवापतितास्मि किल क्षितौ ॥ ८ ॥ पद्मनाभस्ततोऽवोचच्छरभद्वयदर्शनात् । प्रवरोर्वचिरेणैव पुत्रयुग्ममवाप्स्यति ॥ ९ ॥ पतनं पुष्पकस्याग्राद्दयिते न प्रशस्यते । अथवा समदानस्थाः प्रयातुं प्रशमं ग्रहाः ॥ १० ॥ वसंतोऽथ परिप्राप्तस्तिलकामुक्तकंकटः । नीपनागेश्वरारूढः सहकारशरासनः ॥ ११ ॥ पञ्चनवतितमं पर्व । For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy