SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १९९ चतुर्णवतितमं पर्व । विमलप्रभनामाऽभूत्पद्मावत्यां शरीरजः । तनयोऽर्जुनवृक्षाख्यो वनमालासमुद्भवः ॥ ३३ ॥ अतिर्यस्य तनया श्रीकेशिनमस्त च । आत्मजो भगवत्याश्च सत्यकीर्त्तिः प्रकीर्त्तितः ||३४|| सुपार्श्वकीर्त्तिनामानं सुतं प्राप मनोरमा । सर्वे चैते महासत्वाः शस्त्रशास्त्रविशारदाः ।। ३५ ।। नखमांसवदेतेषां भ्रातृणां संगतिर्दृढा । सर्वत्र शस्यते लोके समानोचितचेष्टिता ॥ ३६ ॥ अन्योन्यहृदयासीनाः प्रेमनिर्भरचेतसः । अष्टौ दिवीव वसवो रेमिरे स्वप्सितं पुरि ॥ ३७ ॥ पूर्व जनितपुण्यानां प्राणिनां शुभचेतसाम् । आरभ्य जन्मतः सर्व जायते सुमनोहरम् ॥ ३८ ॥ एवं च कार्त्स्न्येन कुमारकोटयः स्मृता नरेंद्रप्रभवाश्चतस्रः । I कोटयर्द्धयुक्ताः पुरि तत्र शक्त्या ख्याता नितांतं परया मनोज्ञाः ।। ३९ ।। नानाजनपदनिरतं परिगतमुकुटोत्तमांगकं नृपचक्रम् । षोडशसहस्रसंख्यं बलहरिचरणानुगं स्मृतं रवितेजः ॥ ४० ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे रामलक्ष्मणविभूतिदर्शनीयाभिधानं नाम चतुर्णवतितमं पर्व ॥ ९४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy