________________
पद्मपुराणम् ।
चतुणवतितम पर्व। राज्ञः श्रीद्रोणमेघस्य विशल्याख्या सुतादिताः। ततो रूपवतीख्याता प्रतिरूपविवर्जिता ॥२०॥ तृतीया वनमालेति वसंतश्रीयुतेव सा । अन्या कल्याणमालाख्या नामाख्यातमहागुणा ।। २१ ॥ पंचमी रतिमालेति रतिमालेव रूपिणी । षष्ठी च जितप ति जितपद्मा सुखश्रिया ॥ २२ ॥ अन्या भगवती नाम चरमा च मनोरमा । अग्रपत्न्य इमा अष्टावुक्ता गरुडलक्ष्मणः ।। २३ ॥ दयिताष्टसहस्री तु पद्माभस्यामरीसमा । चतस्रश्च महादेव्यो जगत्प्रख्यातकीर्त्तयः ॥ २४ ॥ प्रथमा जानकी ख्याता द्वितीया च प्रभावती । ततो रतिनिभाऽभिख्या श्रीदामा च रमा स्मृता ।। एतासां च समस्तानां मध्यस्था चारुलक्ष्मणा । जानकी शोभतेऽत्यर्थ सतारेंदुकला यथा ॥२६॥ द्वे शते शतमद्धं च पुत्राणां तार्क्ष्यलक्ष्मणः । तेषांच कीर्तयिष्यामि शृणु नामानि कानिचित् २७ वृषभा धरणश्चंद्रः शरभो मकरध्वजः । धारणो हरिनागश्च श्रीधरो मदनोऽच्युतः ॥ २८ ॥ तेषामष्टो प्रधानाश्च कुमाराश्चारुचेष्टिताः । अनुरक्ता गुणैर्येषामनन्यमनसो जनाः ॥ २९ ॥ विशल्यासुंदरीसूनुः प्रथमं श्रीधरः स्मृतः । असौ पुरिविनीतायां राजते दिवि चंद्रवत् ॥३०॥ ज्ञेयो रूपवतीपुत्रः पृथिवीतिलकाभिधः । पृथिवीतलविख्यातः पृथ्वी कान्ति समुद्वहन् ॥ ३१ ॥ पुत्रः कल्याणमालाया बहुकल्याणभाजनम् । बभूव मंगलाभिख्यो मंगलैकक्रियोदितः ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org